________________
स्वोपक्ष
वृत्ति
विभूषित योगशास्त्रम्
तृतीय : प्रकाशः श्लोको १०६-१०७
अथ दन्तवाणिज्यमाह
दन्त-केश-नखा-ऽस्थि-त्वग-रोम्णो ग्रहणमाकरे ।
त्रसाङ्गस्य वणिज्याथ दन्तवाणिज्यमुच्यते ॥ १०६ ॥ ___ दन्ता हस्तिनाम्, उपलक्षणत्वादन्येऽपि त्रसजीवावयवा दन्तग्रहणेन गृह्यन्ते, तदेवाह-केशाचमर्यादीनां, नखा घुकादीनाम् , अस्थीनि शङ्खादीनाम् , त्वक् चित्रकायादीनाम् , रोमाणि हंसादीनाम्, तेषां ग्रहणं मूल्यादिना स्वीकारः, रोम्ण इत्येकवचनं प्राण्यङ्गत्वात् । आकरे तदुत्पत्तिस्थाने, असाङ्गस्य त्रसजीवावयवस्य, वणिज्यार्थ वैणिज्यनिमित्तम् । आकरे हि दन्तादिग्रहणार्थ पुलिन्दानां यदा द्रव्यं ददाति तदा तत्प्रतिक्रयार्थ हस्त्यादिवधं ते कुर्वन्ति, आकरग्रहणं चानाकरे दन्तादेहणे विक्रये च न दोष इति ज्ञापनार्थम् ॥ १०६ ॥ अथ लाक्षावाणिज्यमाह
लाक्षा-मनःशिला-नीली-धातकी-टकणादिनः
विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥ १०७ ॥ १चित्रकादीनां-मु.। चित्रकायो ग्याघ्रः ॥ २ "प्राणितूर्याङ्गाणाम्" सि० ३१११३७ ॥ ३ वाणिज्यनिमित्तम्-शां. सं. विना ॥ का दिबंधं-खं.॥
देशविरतौ पञ्चदशकर्मादानरूपाः सप्तमव्रतातिचाराः
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org