________________
॥ ५४७॥
अथ भाटकजीविकामाह
शकटोक्ष-लुलायोष्ट्र-खरा-ऽश्वतर-वाजिनाम् ।
भारस्य वाहनाद् वृत्तिर्भवेद् भाटकजीविका ॥ १०४ ॥ शकटशब्द उक्तार्थः, उक्षाणो बलीवर्दाः, लुलाया महिषाः, उष्ट्राः करभाः, खरा रासभाः, अश्वतरा वेसराः, वाजिनोऽश्वाः, ऐषां भाटकनिमित्तं यद्भारवाहनं तस्माद् या वृत्तिः सा भाटकजीविका ॥ १०४ ॥ अथ स्फोटजीविकामाह--
सरः-कूपादिखनन-शिलाकुट्टनकर्मभिः ।
पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ॥ १०५ ॥ सरसः कूपस्य, आदिग्रहणाद् वापी दीर्घिकादेः, खननमोड्डुकर्म, हलादिना वा क्षेत्रा विदारणं, शिलाकुट्टनकर्म पाषाणघटनकर्म, एतैः, पृथिव्याः पृथिवीकायस्य य आरम्भ उपमर्दस्तस्य सम्भूतं सम्भवो येभ्यस्तैः पृथिव्यारम्भसम्भूतैः, उपलक्षणं । चैतद् भूमिखनने वनस्पति-त्रसादिजन्तुघातानाम् । एभिर्जीवनं स्फोटजीविका, स्फोटः पृथिव्या विदारणम् , तेन जीविका स्फोटजीविका ॥१०५॥
१ एतेषां-मु. ॥ २ तुलना-धर्मबिन्दुटीका पृ० ४२, पञ्चाशकवृत्तिः पृ० २०, नवपदप्रकरणबृहद्वृत्तिः पृ० २०० ॥ १३ ०स्तदर्थ संभूतैः पृथिव्यारम्भसम्भूतैः-शां. वं. ॥ ४ पृथिव्यादिविदारणं-शां.॥
RELATEHEHRENCHEHEHREETENCHEHREEVANAGaya
Jain Education Inte
For Private & Personal Use Only
Serwww.jainelibrary.org