________________
तृतीयः
स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम्
देशविरतौ
अथ वनजीविकामाह-- छिन्नाच्छिन्नवन-पत्र-प्रसून-फलविक्रयः ।
प्रकाशः कणानां दलनात् पेषाद् वृत्तिश्च वनजीविका ॥ १०२॥
श्लोको
क. १०२-१०३ छिनस्य द्विधाकृतस्य अच्छिन्नस्य च वनस्य वनस्पतिसमूहस्य पत्राणां प्रसूनानां फलानां च छिन्नाच्छिन्नानां विक्रयो| वनजीविकेत्युत्तरेण सम्बन्धः। कणानां च घरट्टादिना दलनाद् द्वैधीकरणात् , शिला-शिलापुत्रकादिना पेषात् चूणीकरणाद् 5 या वृत्तिः सा वनजीविका। वनजीविका चे वनस्पतिकायविधातसम्भवा ॥ १०२ ।। अथ शकटजीविकामाह
पञ्चदश
कर्मादानशकटानां तदङ्गानां घटनं खेटनं तथा।
के रूपाः सप्तमविक्रयश्चेति शकटजीविका परिकीर्तिता ॥ १०३ ॥
चाराः शकटानां चतुष्पदयाह्यानां वाहनानाम् , तदङ्गानां शकटाङ्गानां चक्रादीनाम् , घटनं स्वयं परेण वा निष्पादनम् , खेटनं वाहनम् , तच्च शकटानामेव सम्भवति स्वयं परेण वा, विक्रयश्च शकटानां तदङ्गानां च, इति सकलभूतोपमर्दजननी गवादीनां च बध-बन्धादिहेतुः शकटजीविका प्रकीर्तिता ॥ १०३ ॥
१ उद्धृतोऽयं श्लोकः प्रवचनसारोद्धारवृत्ती [पृ० ६२ मतान्तररूपेण ॥ २-नास्ति वं. ॥ ३ कायादिधात०--मु.॥ ४ प्रवचनसारोदारवृत्ती श्लोकोऽयमुद्धतः पृ० ६२॥ ५ तुलना-धर्मसंग्रहवृत्तिः पृ० ११०॥
BHENEVEREHENSHEHEICHERSHCHEHCHCHCHCHEMICCCCCTETCHE
कव्रताति
in Education Inter nal
For Private & Personal use only
2ww.jainelibrary.org