________________
EMORRHOKHHHHHHHHHHHHHHHHHHHHORE
केशवाणिज्यं ९, विषवाणिज्यं १०, यन्त्रपीडा ११, निर्लाञ्छनम् १२, असतीपोषणं १३, दबदानं १४, सरःशोषः |१५ इत्येतान् पञ्चदशातिचारान् त्यजेत् ॥ ९९ ॥ १० ॥ क्रमेण पञ्चदशातिचारान् व्याचष्टे । तत्राङ्गारजीविकामाह
अङ्गार-भ्राष्ट्रकरणं कुम्भा-ऽयः-स्वर्णकारिता।
ठठारत्वेष्टकापाकाविति ह्यगारजीविका ॥ १०१ ॥ अङ्गारकरणं काष्ठदाहेनाङ्गारनिष्पादनं तद्विक्रयश्च, अङ्गारकरणे हि षण्णां जीवनिकायानां विराधनासम्भवः । एवं च ये येऽग्निविराधनारूपा आरम्भास्ते तेऽङ्गारकर्मण्यन्तर्भवन्ति, प्रपञ्चार्थ तु भेद उक्तः। भ्राष्ट्रस्य चणकादिभर्जनस्थानस्य करणं भ्राष्ट्रकरणम्, भ्राष्ट्रजीविकेत्यर्थः। तथा कुम्भकारिता कुम्भकरण-पाचन-विक्रयनिमित्ता जीविका। तथा अयो लोहम् , तस्य | करण-घटनादिना जीविका। स्वर्णकारिता सुवर्ण-रूप्ययोर्गालन-घटनादिना जीविका । कुम्भा-ऽयः-स्वर्णानि करोतीत्येवं शीलः, तस्य भावस्तत्ता। तथा ठठारत्वं शुल्व-नाग-वङ्ग-कांस्य-पित्तलादीनां करण-घटनादिना जीविका, इष्टकापाकः इष्टकाकवेल्लुकादीनां पाकः, तेन जीविका। इत्येवंप्रकारा अङ्गारजीविका ॥ १०१॥
॥५४
॥
१ विषवाणिज्यं नास्ति सं. ॥ २ तुलना-धर्मसंग्रहवृत्तिः पृ० ११० ॥ शुल्वं ताम्रम् , मागः सीसम् , वन त्रपु॥
www.jainelibrary.org