________________
तृतीयः
| स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
का
5
अमी उक्तस्वरूपाः पञ्चातिचाराः, भोजनतो भोजनमाश्रित्य, त्याज्या वर्जनीयाः। भोगोपभोगमानस्य च व्याख्यानातरम्--भोगोपभोगसाधनं यद् द्रव्यं तदुपार्जनाय यत् कर्म व्यापारस्तदपि भोगोपभोगशब्देनोच्यते, कारणे कार्योपचारात् । ।
प्रकाशः ततश्च कर्मतः कर्माश्रित्य खरं कटोरं प्राणिवाधकं यत् कर्म कोटपाल-गुप्तिपालन-वीतपालनादिरूपं तत्याज्यम् । तस्मिन् श्लोकाः खरकर्मत्यागलक्षणे भोगोपभोगव्रते, पञ्चदश मलानतिचारान् संत्यजेत् । ते च कर्मादानशब्देनोच्यन्ते, कर्मणां पापप्रकृतीनामादानानि कारणानीति कृत्वा ॥ ९८॥ । तानेव नामतः श्लोकद्वयेन दर्शयति
देशविरतौ अङ्गार-चन-शकट-भाटक-स्फोटजीविका [:]।
कर्माश्रित्य दन्त-लाक्षा-रस-केश-विषवाणिज्यकानि च ॥ ९९ ॥
सप्तमव्रता
तिचाराः यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा।
दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥ १०० ॥ जीविकाशब्दः प्रत्येकं सम्बध्यते । अङ्गारजीविका १, वनजीविका २, शकटजीविका ३, भाटकजीविका ४, स्फोटजीविका ५। उत्तरार्धेऽपि वाणिज्यशब्दः प्रत्येकमभिसम्बध्यते । दन्तवाणिज्यं ६, लाक्षावाणिज्यं ७, रसवाणिज्यं ८, १ तुलना-धर्मसंग्रहवृत्तिः पृ०११०॥२ “वीतं फल्गु हय द्विपम्"।। १२५२ इति अभिधानचिन्तामणौ ॥३ रसवाणिज्यं नास्ति शां. सं.॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org