________________
केचित् त्वपक्काहारमप्यतिचारत्वेन वर्णयन्ति । अपक्कं चाग्न्यादिना यदसंस्कृतम् । एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भवति । तुच्छौषधीभक्षणमपि केचिदतिचारमाहुः । तुच्छौषधयश्च मुद्गादिकोमलशिम्बीरूपाः, ताश्च यदि सचित्तास्तदा है सचित्तातिचार एवान्तभवन्ति, अथ अग्निपाकादिना अचित्तास्तर्हि को दोषः ? इति । एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि
अनाभोगा-ऽतिक्रमादिभिरतिचारा भावनीयाः । एते पञ्चातिचारा भोगोपभोगपरिमाणगता बोद्धव्याः ॥ ९७ ॥ | अथ भोगोपभोगातिचारानुपसंहरन् भोगोपभोगव्रतस्य लक्षणान्तरं तद्गतांश्वातिचारानुपदर्शयितुमाह--
अमी भोजनतस्त्याज्याः कर्मतः खरकर्म तु।
तस्मिन् पञ्चदश मलान कर्मादानानि संत्यजेत् ॥ ९८ ॥ १ दृश्यतां पृ० ५४१ टि० १०॥ २०षधि-मु.॥ ३ " ननु तुच्छौषधयोऽपक्वा दुःपक्वाः सम्यक्पक्वा वा स्युः ? यद्याद्यौ तदा तृतीय-चतुर्थातिचाराभ्यामेवास्योक्तत्वात् पुनरुक्तत्वदोषः। अथ सम्यक्पक्कास्तदा निरवद्यत्वादेव कातिचारता तद्भक्षणस्येति ? सत्यम् , किन्तु'......."सचेतनत्वौषधित्याभ्यां समानत्वेऽपि अतुच्छत्व-तुच्छत्वकृतो विशेषो दृश्यः। तत्र च कोमलमुद्गादिफलीविशिष्टतृप्त्यकारकत्वेन तुच्छाः सचेतना एव अनाभोगातिक्रमादिना भुञ्जानस्य तुच्छौषधिभक्षणमतिचारः। अथवा है अत्यन्तावद्यभीरुतयाऽचित्ताहारताऽभ्युपगता, तत्र च यत् तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु सचेतनस्यैव वर्जनीयत्वाभ्युपगमात् । यत् पुनस्तृप्तिसम्पादनासमर्था अप्योषधीलौल्येनाचेतनीकृत्य भुङ्क्ते तत् तुच्छौषधिभक्षणमतिचारः, तत्र भावतो विरतेविराधितत्वाद् द्रव्यतस्तु पालितत्वादिति । एवं रात्रिभोजन-मांसादिवतेष्वपि अनाभोगातिक्रमादिभिरतिचारा भावनीयाः"-पञ्चाशकवृत्तिः पृ० २० । धर्मसंग्रहवृत्तिः पृ० १०९, प्रवचनसारोद्धारवृत्तिः पृ० ७६ ॥
For Private & Personal use only
Jain Education Inter
%3DC
w.iainelibrary.org