________________
स्वोपक्ष
तृतीयः प्रकाशः श्लोकः ९७
वृत्ति
विभूषितं योगशास्त्रम्
॥ ५४२॥
5 देशविरतौ भोजनमा
अथवा संभवत्सचित्तावयवस्यापक्ककणिकादेः पिष्टत्वादिना अचेतनमिति बुद्धया आहारः सम्मिश्राहारः व्रतसापेक्षत्वादतिचार इति तृतीयः ३। ___ अभिषयोऽनेकद्रव्यसंधाननिष्पन्नः सुरा-सौवीरकादिः मांसप्रकारखण्डादिर्वा, सुरा-मध्वाद्यभिस्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगा-अतिक्रमादिनाऽतिचार इति चतुर्थः ४ । | तथा दुष्पक्रो मन्दपक्कः, स चासायाहारश्च दुष्पक्काहारः, स चार्धस्विन्नपृथुक-तण्डुल-यव-गोधूम-स्थूल-मण्डक-
कटुकफलादिरैहिकप्रत्यवायकारी यावता चांशेन सचेतनस्तावता परलोकमप्युपहन्ति । पृथुकादे?ष्पक्वतया सम्भवत्सचेतनावयत्वात् पक्वत्वेनाचेतन इति भुञ्जानस्याऽतिचार इति पञ्चमः ५।।
तुलना-“सच्चित्तेन सम्मिश्राहारः पुष्प-फल-व्रीहि-तिलानां व्यतिमिश्रमोदकादिखाद्यस्यवा कुन्थु-पिपीलिकादिसूक्ष्मजन्तुव्यतिमिश्रस्याभ्यवहारः" -तत्त्वार्थवृत्तिः सिद्धसेनीया ३० पृ० ११५। “सम्मिश्रम् अर्धपरिणतफलादि सद्यःपिष्टकणिक्कादि वा"--धर्मबिन्दुटीका। " नन्वपक्वौषधयो यदि सचेतनास्तदा 'सचित्तम्' इत्याद्यपदेनैवोक्तार्थत्वात् पुनर्वचनमसंगतम् , अथाचेतनास्तदा कोऽतिचारः, निरवद्यत्वात् तद्भक्षणस्य ? इति । सत्यम् , किन्तु आद्यावतिचारी सचेतनकन्दफलादिविषयौ, इतरे तु शाल्योषधिविषया इति विषयकृतो भेदः। अत एच मूलसूत्रे “अपउलिओसभिक्खणया" [उपासकदशाङ्गे इत्या द्युक्तम् । ततोऽनाभोगातिक्रमादिनाऽपक्वौषधिभक्षणमतिचारः । अथवा कणिकादेरपक्वतया संभवा(व)त्सचित्तावयवस्य पिष्टत्वादिनाऽचेतनमिदमिति बुद्धया भक्षणं व्रतसापेक्षत्वादतिचारः।"-पञ्चाशकवृत्तिः पृ० १९-२० । धर्मसंग्रहवृत्तिः पृ० १०९, प्रवचनसारोद्धारवृत्तिः पृ०७६ ॥ २०कर्कटक०-मु. । -कटुक-क.। ०कंकडुक०-धर्मसंग्रहवृत्तिः पृ० १०९। ०कण्डुकादि-तत्त्वार्थवृत्तिः |सिद्धसेनीया १३०, पृ० ११५ ॥ ३ तुलना-पञ्चाशकवृत्तिः पृ० २० ॥
श्रित्य
सप्तमव्रता
.
Jain Education Inte
For Private & Personal Use Only
Www.jainelibrary.org