________________
॥ ५४१ ॥
Jain Education I
संह चित्तेन चेतनया वर्तते यः स सचित्त आहार एव, आहारस्तु दुष्पक्वाहार इत्यस्मादाकृष्य सम्बध्यते, एवमुत्तरेष्वप्याहारशब्दो योजनीयः । सचित्तस्तु केंन्दमूलफलादिः पृथिवीकायादिव । इह च निवृत्तिविषयीकृतप्रवृत्तौ भङ्गसद्भावेऽप्यतिचाराभिधानं व्रतसापेक्षस्यानाभोगा - ऽतिक्रमादिना प्रवृत्तौ द्रष्टव्यम् १ |
तेन सचित्तेन सम्बद्धः प्रतिबद्धः सचित्तसंबद्धः, सचेतनवृक्षादिसम्बद्धो गुन्दादिः, पक्कफलादिर्वा, सचित्तान्तवजः खर्जूराम्रादिः, तदाहारो हि सचित्ताहार वर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः । अथवा बीजं त्यक्ष्यामि तस्यैव । सचेतनत्वात्, कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्धया पक्वं खर्जूरादिफलं मुखे प्रक्षिपतः सचित्तवर्जकस्य सचित्त| प्रतिबद्धाहारो द्वितीयः २ ।
तथा सचित्तेन मिश्रः शबलं आहारः सम्मिश्राहारः । यथा-
30
आर्द्रक- दाडिम-बीजकु-चिर्भिटादिमिश्रः पूरणादिः, तिलमिश्रो यक्धानादिर्वा, अयमप्यनाभोगा ऽतिक्रमादिनाऽतिचार: :
१ दृश्यतां तत्त्वार्थवृत्तिः सिद्धसेनीया ७/३०, पृ० ११४ । तुलना - धर्मसंग्रहवृत्तिः पृ० १०८ ॥ २ तुलना - तत्त्वार्थवृत्तिः सिद्ध| सेनीया ७।३० पृ० ११५ । ३ पृथ्वी० - मु. ॥ ४, ५ तुलना- धर्मबिन्दुटीका पृ० ४२, पञ्चाशकवृत्तिः पृ० १९, धर्मसंग्रहवृत्तिः पृ० १०८, प्रवचनसारोद्धार वृत्तिः पृ० ७६, नवपदप्रकरणबृहद्वृत्तिः पृ० २२४ ॥ ६०क्षादिना स. मु. ॥ ७ गोंदादिः - शां. सं. ॥ ८ सवल-सं. ॥ ९ सम्मिश्रा० मु० ॥। १० ०बीजकुलिकाचिर्भटिकादिमिश्रः- मु. । वीजपूरकचिटिकादिमिश्रः - धर्म संग्रहवृत्तिः पृ० १०९ । | कर्कटकवीज कौलिकाकुलस्य ( कर्कट कबीजको किलिकाकुलादिना प्रत्यन्तरे ) ". -तत्त्वार्थवृत्तिः सिद्धसेनीया ७।३०, पृ० ११५ ।। ०बीजकरवन्दकादिमिश्रः- प्रवचनसारोधारवृत्तिः पृ० ७७ ॥
For Private & Personal Use Only
5
10
॥ ५४१ ॥
www.jainelibrary.org