________________
॥ ५३९॥
दिग्विरतिव्रते पञ्चातिचाराः, इत्यनेन रूपेण, स्मृताः पूर्वाचार्यैः । तद्यथा
स्मृतेर्योजनशतादिरूपदिक्परिमाणविषयाया अतिव्याकुलत्व-प्रमादित्व-मत्यपाटवादिनाऽन्तर्धानं भ्रंशः। तथाहिकेनचित् पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत् , गमनकाले च स्पष्टतया न स्मरति, किं शतं परिमाणं कृतमुत है। पञ्चाशत् ? तस्य चैवं पञ्चाशतमतिक्रमतोऽतिचारः, शतमतिक्रामतो भङ्गः, सापेक्षत्वान्निरपेक्षत्वाचेति । तस्मात् स्मर्तव्यमेव । गृहीतव्रतम् , स्मृतिमूलं हि सर्वमनुष्ठानमिति प्रथमोऽतिचारः १। | तथा ऊर्ध्व पर्वत-तरुशिखरादेः, अधोऽधोग्राम-भूमिगृह-कूपादेः, तिर्यक् पूर्वादिदिक्षु, योऽसौ भागो नियमितः ।। प्रदेशः तस्य व्यतिक्रमः; ऐते त्रयोऽतिचाराः। यत्सूत्रम्- 'उड्ढदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे' [उपासकदशाङ्गे] इति । एते च अनाभोगाऽतिक्रमादिभिरेवाऽतिचारा भवन्ति, अन्यथा प्रवृत्तौ तु भङ्गा है। एव। यस्तु नै करोमि न कारयामीति वा नियमं करोति स विवक्षितक्षेत्रात् परतः स्वयं गमनतः परेण नयनानयनाभ्यां च । दिक्झमाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधपत्याख्यानाभावात् परेण नयनानयनयोर्न दोषः २।३।४।
१ तुलना-धर्मबिन्दुटीका पृ० ४१, पञ्चाशकवृत्तिः पृ० १८, धर्मसंग्रहवृत्तिः पृ० १०८, प्रवचनसारोद्धारवृत्तिः पृ० ७६, नवपदप्रकरणबृहद्वृत्तिः पृ० १९३॥ २ तुलना-तत्त्वार्थवृत्तिः सिद्धसेनीया १२५, पृ० १११ ॥ ३ अधोग्राम०-मु.। अधश्च अधोलौकिकग्राम-तत्त्वार्थवृत्तिः सिद्धसनीया पृ० १११॥ ४ तुलना-पञ्चाशकवृत्तिः पृ० १७-१८॥ ५आवश्यकसूत्रेऽपि सूत्रमिदं वर्तते ।। ऊर्ध्वदिक्प्रमाणातिक्रमः अधोदिक्प्रमाणातिक्रमः, तिर्यग्दिक्प्रमाणातिक्रमः॥ ६ तुलना-धर्मसंग्रहवृत्तिः पृ० १०८॥ ७ तुलनाधर्मबिन्दुटीका पृ० ४१, पञ्चाशकवृत्तिः पृ० १८॥ ८ परेणानयननयनाभ्यां-शां.॥ ९ परेणानयनानयनयो०-खं. शां. ॥
For Private & Personal Use Only
॥५३९॥
Jain Education Interna
elainelibrary.org