SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ।। ५३७॥ न साक्षात् संख्यातिक्रमः, किन्तु व्रतसापेक्षस्य बन्धनादिभिः पञ्चभिर्हेतुभिः स्वबुद्धया व्रतभङ्गमकुर्वत एवातिचारो भवति । वन्धनादयश्च यथासंख्येन धन-धान्यादीनां परिग्रहविषयाणां सम्बध्यन्ते । तत्र धनधान्यस्य बन्धनात् संख्यातिक्रमो यथा--कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं वा ददाति, तच्च व्रतभङ्गभयात् 'चतुर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामि' इति भावनया बन्धनात् नियन्त्रणात् , रज्ज्वादिसंयमनात् , सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य तद्गृह एव तत् स्थापयतोऽतिचारः १ । | कुप्यस्य भावतः संख्यातिक्रमो यथा—कुप्यस्य या संख्या कृता तस्याः कथञ्चिद् द्विगुणत्वे सति व्रतभङ्गभयाद् भावतो द्वयोर्द्वयोर्मीलनेन एकीकरणरूपात पर्यायान्तरात् स्वाभाविकसंख्यावाधनात् संख्यामात्रपूरणाचातिचारः। अथवा भावतोऽभिमायादर्थित्वलक्षणाद् ‘विवक्षितकालावधेः परतो ग्रहीष्यामि, अतो नान्यस्मै देयम्' इति पराप्रदेयतया व्यवस्थापयतोऽतिचारः २। तथा गो-महिपी-बडवादेविवक्षितसंवत्सराद्यवधिमध्य एव प्रसवे अधिकगवादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् ।। कियत्यपि काले गते गर्भतो गर्भग्राहणाद् गर्भस्थगवादिभावेन बहिस्तदभावेन कथञ्चिद् व्रतभङ्गाद् व्रतिनोऽतिचारः ३ । १ तुलना-धर्मबिन्दुटीका पृ०४०-४१, पञ्चाशकवृत्तिः पृ० १६, धर्मसंग्रहबृत्तिः पृ० १०७, प्रवचनसारोद्धारवृत्तिः पृ० ७५, है नवपदप्रकरणबृहद्वृत्तिः पृ० १८५॥ २ भावनाया-शां. सं.॥ ३, ४ तुलना-धर्मविन्दुटीका पृ० ४१, पञ्चाशकवृत्तिः पृ० १७, का॥५३७॥ धर्मसंग्रहवृत्तिः पृ० १०७, प्रवचनसारोद्धारवृत्तिः पृ० ७५, ५ ०ग्रहणाद्-मु.॥ HIRUSHEHEREHEREHERRCHEHEREHEHEHEHENEVEMEERENCE Jain Education Inter For Privale & Personal use only vw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy