________________
स्वोपज्ञवृत्तिविभूषितं
तृतीयः प्रकाशः श्लोकः ९५ ॥ ५३६ ॥ 5 देशविरतौ पञ्चमव्रता
वर्गस्य स गवादिः। आदिशब्दान्महिप-मेषा-ऽविक-करभ-रासभ-तुरग-हस्त्यादिचतुष्पदानां हंस-मयूर-कुक्कुट-शुक-सारिकापारापत-चकोरादिपक्षिद्विपदानां पत्नी-उपरुद्धा-दासी-दास-कर्मकर-पदात्यादिमनुष्याणां च संग्रहः । क्षेत्रं सस्योत्पत्तिभूमिः, तत् त्रिविधं सेतुकेतूभयभेदात् । तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते, केतुक्षेत्रमाकाशोदकपातनिष्पाद्यसस्यम् , उभयमुभयजलनिष्पाद्यसस्यम् । वास्तु गृहादि ग्रामनगरादि च । तत्र गृहादि त्रिविधम्-खातं भूमिगृहादि, उच्छ्रितं प्रासादादि, खातो- च्छ्रितं भूमिगृहस्योपरि गृहादिसन्निवेशः । क्षेत्रं च वास्तु चेति समाहारद्वन्द्वः। तथा हिरण्यं रजतं घटितमघटितं चानेक- प्रकारं पान्यादि, एवं सुवर्णमपि, हिरण्यं च हेम चेत्यत्रापि समाहारः। संख्या व्रतकाले यावजीवं चतुर्मासादिकालावधि वा यत् परिमाणं गृहीतं तस्या अतिक्रम उल्लङ्घनं संख्यातिक्रमोऽतिचारः ॥ ९४ ॥ ____ ननु प्रतिपन्नसंख्यातिक्रमो भङ्ग एव स्यात् , कथमतिचारः ? इत्याह
बन्धनाद् भावतो गर्भाद् योजनाद् दानतस्तथा।
प्रतिपन्नव्रतस्यैष पञ्चधाऽपि न युज्यते ॥ ९५ ॥ १०कुर्कुट-मु. तत्त्वार्थवृत्तिः सिद्धसेनीया ॥ २ ०पक्षिणां द्विपदानां-खं. ॥ ३ तुलना-धर्मबिन्दुटीका पृ० ४०, पञ्चाशकवृत्तिः पृ० १६, धर्मसंग्रहवृत्तिः पृ० १०६, प्रवचनसारोवृत्तिः पृ०७४, सिद्धसेनीया तत्त्वार्थवृत्तिः ॥२४ पृ० ११०।। ४ तुलना-धर्मसंग्रहवृत्तिः पृ० १०६ । ५ तस्य अतिक्रम०-सं.। तस्यातिक्रम०-शां.॥ ६ प्रतिपन्नव्रतसंख्या-मु.। तुलनाधर्मसंग्रहवृत्तिः पृ० १०७।।
तिचाराः
Jain Education Internal
For Private & Personal Use Only
EMAjainelibrary.org