________________
॥ ५३३ ॥
Jain Education Internat
तद्विधातुं न शक्नोति, तदा यापनामात्रार्थं खदारसन्तोषादि प्रतिपद्यते । मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां मदनात्या| ग्रहा - नङ्गक्रीडे अर्थतः प्रतिषिद्धे । तत्सेवने च न कश्चिद् गुणः, प्रत्युतै तात्कालिकी छिदा राजयक्ष्मादयश्च रोगा दोषा एव | भवन्ति । एवं प्रतिषिद्धाचरणाद् भङ्गो नियमाबाधनाच्चाभङ्ग इत्यतिचारावेतौ ।
अन्ये त्वन्यथाऽतिचारद्वयमपि भावयन्ति - से हि खदारसन्तोषी मैथुनमेव मया प्रत्याख्यातमिति स्वकल्पनया वेश्यादौ तत् परिहरति, नालिङ्गनादि; परदारवर्जकोऽपि परदारेषु मैथुनं परिहरति, नालिङ्गनादि; इति कथञ्चिद् व्रतसापेक्षत्वादतिचारौ । एवं स्वदार सन्तोषिणः पञ्चातिचाराः । परदारवर्जकस्य तूत्तरे त्रय एवेति स्थितम् ।
अन्ये त्वन्यथाऽतिचारान् विचारयन्ति, यथा
“परदारवजिणो पंच हुंति तिष्णि उ सदारसंतुट्टे ।
इत्थीउ तिणि पंच व भंगविगप्पेहि अइयारा ॥१॥" [नवपदप्रकरणे गा० ५४, सम्बोधप्रकरणे ७४१, गा० ११५७]
१ संभवत्यां - सं. धर्मसंग्रहवृत्तिः पृ० १०५ | २ न च मु. ॥ ३ सिद्धसेनीया तत्त्वार्थवृत्तिः ७ २३, पृ० १०९ ।। ४ तात्कालिच्छिदा-सं. ॥। ५ तुलना-धर्मबिन्दुटीका पृ० ३९-४०, पञ्चाशकवृत्तिः पृ० १५, धर्मसंग्रहवृत्तिः पृ० १०५, प्रवचनसारोद्धारवृतिः पृ० ७४ ॥ ६ तुलना - धर्मविन्दुटीका पृ० ३९, पञ्चाशकवृत्तिः पृ० १५, धर्मसंग्रहवृत्तिः पृ० १०५ । ७ परदारवर्जिनः पञ्च भवन्ति त्रयस्तु स्वदार सन्तुष्टे । स्त्रियाः त्रयः पञ्च वा भङ्गविकल्पैरतिचाराः ॥। ८ इत्थीए इति धर्मविन्दुटीकादौ पाठः ॥ ९ पंच वि सं. ॥ १० ० विगप्पेहिं अइआरा- शां. ० विगप्पेहिं नायव्वा - इति सम्बोधप्रकरणे पञ्चाशकवृत्तौ धर्मविन्दुटीकायां च पाठः ॥
For Private & Personal Use Only
Halaak
10
॥ ५३३ ॥
ainelibrary.org