SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ ५३२ ॥ addeledeesia Jain Education Inte मदने कामेऽत्याग्रहः परित्यक्तान्यसकलव्यापारस्य तदध्यवसायता । योषामुखकक्षोपस्थान्तरेष्ववितृप्ततया प्रक्षिप्य प्रजननं महतीं वेलां निश्वलो मृत वास्ते, चटक इव चटकायां मुहुर्मुहुर्योषायामारोहति, जातबलक्षयश्च वाजीकरणानुपयुङ्क्ते 'अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरगावमेर्दी च पुरुषो भवति' इति बुद्धया । इति चतुर्थः ४ । तथा अनङ्गः कामः, स च पुंसः स्त्री-पुं- नपुंसकेषु सेवनेच्छा हस्तकर्मादीच्छा वा वेदोदयात्, योषितोऽपि योषिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्यापि नपुंसक - पुरुष-स्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा । एषोऽनङ्गो नान्यः कश्चित् । तेन तस्मिन् वा क्रीडा रमणमनङ्गक्रीडा । यद्वा आहाय्यैः काष्ठ-पुस्त - फल- मृत्तिका - चर्मादिभिर्घटितैः प्रजननैः स्वलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः कुनाति, केशाकर्षण-प्रहारदान- दन्तनखकदर्थनादिप्रकारैश्च मोहनीयकर्मावेशात् तथा क्रीडति यथा बलवान् रागः प्रसूयते । अथवाऽङ्गं देहावयवो मैथुनापेक्षया योनिर्महनं चं, तद्व्यतिरिक्तान्यनङ्गानि कुच - कक्षोरूवदनादीनि तेषु क्रीडा अनङ्गक्रीडा । इह च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्यं चिकीर्षुरपि यदा वेदोदयासहिष्णुतया १ तुलना - तत्त्वार्थसूत्रस्य सिद्धसेनीया वृत्तिः ७ २३, पृ० १०९, प्रवचनसारोद्वार वृत्ति: पृ० ७४, धर्मसंग्रहवृत्तिः पृ० १०५ ।। २ ० सायतः योषामुखकक्षोरुपस्था०-मु० ॥ ३ तृष्णतया - शां. । ०तृप्तितया - खं. ॥ ४ एवास्ते - मु. ॥ ५० मर्दीव पुरुषो - मु. ॥ ६ तुलना - तवार्थसूत्रस्य सिद्धसेनीया वृत्तिः ७ २३, पृ० १०८ - १०९, धर्मसंग्रहवृत्तिः पृ० १०५, प्रवचनसारोद्वार वृत्तिः पृ० ७४ ॥ ७ वा वेदोदयात्, शां. ॥ ८ तुलना- धर्मबिन्दुटीका, पृ० ३९, पञ्चाशकवृत्तिः पु० १४, धर्मसंग्रहवृत्तिः पृ० १०५, प्रवचनसारोद्वारवृत्तिः पृ० ७४ ॥ ९ वा - मु. धर्मबिन्दुटीका, प्रवचनसारोद्वारवृत्तिः ॥ १० ०न्यङ्गानि - मु. ॥। ११ तुलना-धर्मबिन्दुटीका पृ० ३९, पञ्चाशकवृत्तिः पृ० १५, धर्मसंग्रहवृत्तिः पृ० १०५, प्रवचनसारोद्वारवृत्तिः पृ० ७४ ।। For Private & Personal Use Only तृतीयः प्रकाशः श्लोकः ९३ ॥ ५३२ ॥ 5 चतुर्थव्रता तिचाराः 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy