SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ॥ ५३१ ॥ Jain Education Inte lalalalalalala तथाऽन्येषां स्वस्वापत्यव्यतिरिक्तानां विवाहनं विवाहकरणं कन्याफललिप्सया, स्नेहसम्बन्धादिना वा परिणयनविधानम् । इदं च स्वंदारसन्तोषवता स्वकलत्रात् परदारवर्जकेन च स्वकलत्र - वेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्य्यं न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति तदा अन्यविवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तद्व्रती तु मन्यते - 'विवाह एवाऽयं मया विधीयते, न मैथुनं कार्य्यते ' इति व्रतसापेक्षत्वादतिचार इति । कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां सम्भवति, मिध्यादृष्टेस्तु भद्रकावस्थायामनुग्रहार्थं व्रतदाने सा सम्भवति । नन्वन्यविवाहनवत् खापत्यविवाहनेऽपि समान एव दोषः ? सत्यम्, यदि स्वकन्याया विवाहो न कार्यते तदा स्वच्छन्दचारिणी स्यात्, ततश्च शासनोपघातः स्यात् विहितविवाहा तु पतिनियन्त्रितत्वेन न तथा स्यात् । परेऽप्याहुः - “ पिता रक्षति कौमारे, भर्त्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ॥ १ ॥ " [ मनुस्मृतौ ९ ३ ] यस्तु दाशार्हस्य कृष्णस्य चेटकराजस्य च स्वापत्येष्वपि विवाहनियमः श्रूयते स चिन्तकान्तरसद्भावे द्रष्टव्यः । अन्ये त्वाहुः——अन्यस्य कलत्रान्तरस्य विशिष्टसन्तोषाभावात् स्वयं विवाहनमन्यविवाहनम् । अयं स्वदारसन्तुष्ट - स्याऽतिचारः । इति तृतीयः ३ । १ स्वापत्य० - धर्मविन्दुटीका पृ० ३९ । स्वस्वापत्य०-पञ्चाशकवृत्तिः पृ० १४, धर्मसंग्रहवृत्तिः पृ० १०४, प्रवचनसारोद्वारवृत्ति पृ० ७४ ॥ २ धर्मबिन्दुटीका पृ० ४०, पञ्चाशकवृत्तिः पृ० १५, धर्मसंग्रहवृत्तिः पृ० १०४, प्रवचनसारोद्वारवृत्तिः पृ० ७४ ॥ नवपदप्रकरणवृहद्वृत्तिः पृ० १६८ ॥ ३ व्रतादाने - मु. ॥ ४ 'पुत्राश्च' इति प्रवचनसारोद्वारवृत्तौ पृ० ७४ ॥ ५ तुलना - धर्मविन्दुटीका पृ० ४०, पञ्चाशकवृत्तिः पृ० १५, धर्मसंग्रहवृत्तिः पृ० १०४ ॥ For Private & Personal Use Only 10 ॥ ५३१ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy