SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः श्लोका ९३ चतुर्थव्रतातिचाराः व्रतसापेक्षचित्तत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्गः, इति भङ्गाभङ्गरूपत्वादित्वरात्तागमोऽतिचारः स्वोपज्ञवृत्ति है इति प्रथमः १। विभूषितं ___तथा अनात्ता अपरिगृहीता वेश्या, स्वैरिणी, प्रोषितभर्तृका, कुलाङ्गना वाऽनाथा, तस्यां गतिरासेवनम् । इयं चानायोगशास्त्रम् भोगादिना अतिक्रमादिना वा अतिचारः । इमौ चातिचारौ स्वदारसन्तोषिण एव, न तु परदारवर्जकस्य, इत्वरात्ताया ॥५३०॥ वेश्यात्वेन अनात्तायास्त्वनाथतयैवापरदारत्वात्, शेषास्त्वतिचारा द्वयोरपि, इदं च सूत्रानुपाति। यदाहुः "सदारसंतोसस्स इमे पंच अइयारा जाणियव्वा न समायरियव्वा ।" [उपासकदशाङ्गे] ___ अन्ये त्याहुः-इत्वरात्तागमः स्वदारसन्तोषवतोऽतिचारः, तत्र भावना कृतैव, अनात्तागतिस्तु परदारवर्जिनः। अनात्ता हि वेश्या, यदा तां गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनजन्यदोषसम्भवात् कथञ्चित् परदारत्वाच्च काभङ्गत्वेन वेश्यात्वाचाभङ्गत्वेन भङ्गाभङ्गरूपोऽतिचारः। इति द्वितीयः २। १ वस्तुतोऽस्वकलत्र-धर्मबिन्दुटीका, पञ्चाशकवृत्तिः ॥ २ दृश्यतां तत्त्वार्थसूत्रस्य सिद्धसेनसूरिविरचिता वृत्तिः | १२३, पृ० १०८ ॥ ३ अयं-शां.। इयम्-अनात्तागतिः ॥ ४ तुलना-धर्मबिन्दुटीका पृ० ३९, पञ्चाशकवृत्तिः पृ० १४, धर्मसंग्रहवृत्तिः पृ० १०५ ॥ “सदारसंतुट्ठस्स अंतिल्ला तिण्णि, परदारविवजगस्स पंच वि सयपरिग्गहिय-अपरिग्गहियातो अण्णे भणंति-सदारसंतुट्ठस्स अंतिल्ला तिन्नि, सदारणियत्तस्स पंच वि" -आवश्यकचूर्णिः पृ० २९१ । “आदिल्ला दो अतियारा सदारसंतुटुस्स भवंति, णो परदारविवज्जगस्स, सेसा पुण दोण्ह वि भवंति" इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ८२५॥ ५ अनात्तायाः स्वनाथ-मु.॥ ६ स्वदारसन्तोषस्य इमे पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः ॥ तुलना-प्रवचनसारो कद्धारवृत्तिः पृ० ७३॥ ७०दारत्वाच्चाभङ्गत्वेन भङ्गाभङ्ग-मु. ॥ ८०भङ्गत्वमवेश्या०-शां.॥ For Private & Personal Use Only Jain Education Inter जि Calww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy