________________
॥ ५२९ ॥
Jain Education I
यदा राजा भाण्डागारे द्रव्याणां विनिमयं मानान्यत्वं च कारयति तदा राज्ञोऽप्यतिचारो भवति । एते च पञ्चाप्यस्तेयव्रताश्रिता अतिचाराः ॥ ९२ ॥
अथ चतुर्थत्रतातिचारानाह—
इत्वरात्तागमोऽनात्तागतिरन्यविवाहनम् । मदनात्याग्रहो ऽनङ्गक्रीडा च ब्रह्मणि स्मृताः ॥ ९३ ॥
3
ब्रह्मणि ब्रह्मचर्यव्रते, एतेऽतिचाराः । इत्वरी प्रतिपुरुषमयनशीला, वेश्या इत्यर्थः, सा चासावात्ता च कञ्चित् कालं | भाटी प्रदानादिना संगृहीता, पुंवद्भावे इत्वरात्ता । अथवा इत्वरं स्तोकमप्युच्यते, इत्वरं स्तोकमल्पमात्ता इत्वरात्ता, विस्पष्टपटुवत् समासः । अथवा इत्वरकालमात्ता इत्वरात्ता, मैयूरव्यंसकादित्वात् समासः, कालशब्दलोपश्च । तस्यां गम आसेवनम् ।
इयं चात्र भावना – भाटीप्रदानादित्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां सेवमानस्य स्वबुद्धिकल्पनया स्वदारत्वेन
१ ० चाराः स्मृताः- मु. ॥ २' परतः स्त्री पुंवत्, स्त्र्येकार्थेऽनूङ् ' सि० ३|१|४९ ॥ ३ " नाम नाम्नैकायै समासो बहुलम् | ३|१|१८ । बहुव्रीह्यादिविशेषसंज्ञाऽभावे यत्रैकार्थता दृश्यते तत्रानेनैव समाससंज्ञा भवति - विस्पष्टं पटुः विस्पष्टपटुः” इति सिद्धम० वृहद्वृत्तो। दृश्यतां तत्वार्थसूत्रस्य सिद्धसेनीया वृत्तिः, ७ २३, पृ० १०८ ॥ ४ " मयूरव्यंसकेत्यादयः ” सि० ३|१|११६ ॥ ५ तुलना - धर्मविन्दुटीका पृ० ३९, पञ्चाशकवृत्तिः पृ० १४, प्रवचनसारोद्वारवृत्तिः पृ० ७४, धर्मसंग्रहवृत्तिः पृ० १०५ ॥
nal
For Private & Personal Use Only
10
॥ ५२९ ॥
www.jainelibrary.org