SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष तृतीयः प्रकाशः वृत्तिविभूषितं योगशास्त्रम् श्लोकः ९२ ॥५२८॥ दीनां सशृङ्गाणामग्निपक्वकालिङ्गीफलस्वेदादिना शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यग्वलितानि वा यथारुचि विधायान्यत्वमिव तेषामापाद्य सुखेन धारण-विक्रयादि करोति । इति चतुर्थः ४ । ____ तथा मीयतेऽनेनेति मानं कुडवादि पलादि हस्तादि, तस्यान्यत्वं हीनाधिकत्वम् , हीनमानेन ददाति, अधिकमानेन | गृह्णाति । इति पञ्चमः ५। प्रतिरूपक्रिया मानान्यत्वं च परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं ‘खात्रखननादिकमेव चौर्य प्रसिद्धम् | मया तु वणिक्कलैव कृता' इति भावनया व्रतरक्षणोद्यतत्वादतिारावेवेति । अथवा स्तेनानुज्ञादयः पश्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिना अतिक्रम-व्यतिक्रमादिना या प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते । न चैते राज-राजसेवकादीनां न सम्भवन्ति, तथाहि-आद्ययोः स्पष्ट एव सम्भवः। द्विड्राज्यलङ्घनं तु यदा सामन्तादिः | कश्चित् स्वस्वामिनो वृत्तिमुपजीवति, तद्विरुद्धस्य च सहायो भवति, तदाऽस्यातिचारो भवति । प्रतिरूपक्रिया मानान्यत्वं च छ १-क० ड० । न्यविधत्वमिव-मु० धर्मसंग्रहवृत्तौ [पृ० १०४] च ॥ २ ०व्यसनेन सं. मु०। “व्यंसयति च्छलयति व्यसकः" इत्यभिधानचिन्तामणौ श्लो० ३७७ । तुलना-धर्मबिन्दुटीका पृ० ३८, पञ्चाशकवृत्तिः पृ० १३, नवपदप्रकरणबृहवृत्तिः पृ० १३९, प्रवचनसारोद्धारवृत्तिः पृ०७३, धर्मसंग्रहवृत्तिः पृ० १०४ ॥ ३ प्रतिषिद्धं-सं. । प्रवचनसारोद्धारवृत्ती [पृ०७३] च। ४ •चारतैवेति-खं.॥ ५ चैते राजसे-मुः। दृश्यतां पञ्चाशकवृत्तिः पृ० १३॥ ६ भवतीति-शां. ॥ तृतीयत्रतातिचाराः Jain Education in For Private & Personal Use Only loww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy