SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ तथा तच्छब्देन स्तेनपरामर्शः। स्तेनैरानीतमाहृतं कनक-वस्त्रादि, तस्यादानं ग्रहणं मूल्येन मुधिकया वा तदानीतादानम् , स्तेनानीतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं गृहंचोरो भवति, ततश्चौर्यकरणागतभङ्गः, वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वाच्चाभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । इति द्वितीयः २। तथा द्विषोविरुद्धयो राज्ञोरिति शेषः, राज्यं नियमिता भूमिः कटकं वा, तस्य लङ्घनं व्यवस्थातिक्रमः, व्यवस्था च परस्परविरुद्धराजकृतैव, तल्लङ्घनं चान्यतरराज्यनिवासिन ईतरराज्ये प्रवेशः इतरराज्यनिवासिनो वा अन्यतरराज्ये प्रवेशः । द्विड्राज्यलङ्घनस्य यद्यपि स्वस्वामिना अननुज्ञातस्य “सामी-जीवादत्तं तित्थयरेणं तहेव य गुरूहि ।" [नवपदप्रकरणे गा० ३८] इत्यदत्तादानलक्षणयोगेन तत्कारिणां च चौर्य्यदण्डयोगेन अदत्तादानरूपत्वाद्तभङ्ग एव, तथापि द्विड्राज्यलङ्घनं कुर्वता मया वाणिज्यमेव कृतं, न चौर्यम्' इति भावनया व्रतसापेक्षत्वाल्लोके च चौरोऽयमिति व्यापदेशाभावादतिचारता । इति तृतीयः ३। तथा प्रतिरूपं सदृशम् , बीहीणां पलजिः, घृतस्य वसा, हिङ्गोः खदिरादिवेष्टः, तैलस्य मूत्रम् , जात्यसुवर्णरूप्ययोयुक्तिसुवर्णरूप्ये इत्यादिप्रतिरूपेण क्रिया व्यवहारः, व्रीह्यादिषु पलञ्ज्यादि प्रक्षिप्य तत्तद्विक्रीणीते । यद्वा अपहृतानां गवा १०त्वान्न तद्भङ्ग-मुः। त्वान्न वा भङ्ग-ख० च०॥ २ सामि-मु०॥ स्वामि-जीवादत्तं तीर्थकरेण तथैव च गुरुभिः। ।३ दिवेष्ट-सं. । दिविष्ट-खं. ॥ ४०रूपा क्रिया-खं.॥ ५ तत्तद्विक्रीणाति-सं. ॥ For Private & Personal Use Only ॥५२७॥ Jain Education Inter Ab elw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy