________________
स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम्
वातिचारः। अथवा 'असत्यमित्यसत्यभणनं मया प्रत्याख्यातम् , इदं पुनर्लेखनम्' इति भावनया व्रतसव्यपेक्षस्यातिचार
तृतीयः एवेति पञ्चमोऽतिचारः ५ ॥ ९१ ॥
प्रकाशः अथ तृतीयव्रतातिचारानाह
श्लोकः ९२
॥५२६ ॥ स्तेनानुज्ञा तदानीतादानं द्विराज्यलचनम् । प्रतिरूपक्रिया मानान्यत्वं चास्तेयसंश्रिताः ॥ ९२ ॥
तृतीयव्रतास्तेनाश्चौराः, तेषामनुज्ञा-हरत यूयमिति हरणक्रियायां प्रेरणा। अथवा स्तेनोपकरणानि कुशिका-कर्तरिका-घरिका
तिचाराः दीनि, तेषामर्पणं विक्रयणं वा स्तेनानुज्ञा । अत्र च यद्यपि ' चौर्य न करोमि न कारयामि' इत्येवं प्रतिपन्नव्रतस्य स्तेनानुज्ञा व्रतभङ्ग एव, तथापि 'किमधुना यूयं निर्व्यापारास्तिष्ठत ? यदि वो भक्तादि नास्ति तदाऽहं तद्ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्ये' इत्येवंविधवचनेचौरान् व्यापारयतः स्वकल्पनया तद्व्यापारणं परिहरतो है व्रतसापेक्षस्यासावतिचारः। इति प्रथमोऽतिचारः १। म १ चातिचारः-शां. लं.॥ २ दृश्यतां तत्त्वार्थसूत्रस्य सिद्धसेनीया वृत्तिः ॥२२, पृ० १०६। तुलना-पञ्चाशकवृत्तिः पृ० १३ नवपदप्रकरणबृहद्वृत्तिः पृ० १३९, प्रवचनसारोद्धारवृत्तिः पृ० ७३, धर्मसंग्रहवृत्तिः पृ० १०३ ॥ ३ 'तिष्ठथ' इति
धर्मबिन्दुटीकायां [पृ. ३८ ], पश्चाशकवृत्तौ [पृ०१३] प्रवचनसारोद्धारवृत्तौ [पृ०७३] च । धर्मसंग्रहवृत्तौ तु तिष्ठत' इत्येव कीवर्तते ॥ "किं भवन्तो निर्व्यापारास्तिष्ठन्ति" इति नवपदप्रकरणवृहद्वृत्ती पृ. १२९॥
For Private & Personal Use Only
HEHEROHIGHEHRISHCHICHICHCHHEROCHEHEMSHEHARSHCH
Jain Education Intem
ijainelibrary.org