________________
॥ ५२५ ॥
Jain Education Inte
Bicicletelek
'सहसभक्खाणाई जाणतो जड़ करेज तो भंगो। जइ पुणऽणाभोगाईहिंतो तो होइ अइयारो ॥ १ ॥ " [ इति द्वितीयोऽतिचारः २ ।
तथा गुह्यं गूहनीयं, न सर्वस्मै यत् कथनीयं राजादिकार्य्यसंबद्धं तस्यानधिकृतेनैवाऽऽकारेङ्गितादिभिर्ज्ञात्वाऽन्यस्मै प्रकाशनं गुह्यभाषणं, यथा- एते हीदमिदं च राजविरुद्धादिकं मन्त्रयन्ते । अथवा गुह्यभाषणं पैशुन्यं, यथा-द्वयोः प्रीतौ सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति । इति तृतीयोऽतिचारः ३ ।
46
तथा विश्वस्ता विश्वासमुपगता ये मित्र - कलत्रादयस्तेषां मन्त्रो मन्त्रणं, तस्य भेद: प्रकाशनम् । तस्यानुवादरूपत्वेन सत्यत्वाद् यद्यपि नातिचारता घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितो मित्र - कलत्रादेर्मरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधिकृत एव गुह्यं प्रकाशयति, इह तु स्वयं मन्त्रयितैव मन्त्रं भिनत्तीत्यनयोर्भेदः । इति चतुर्थोऽतिचारः ४ ।
तथा कूटमसद्भूतम्, तस्य लेखो लेखनं कूटलेखः, अन्यसरूपाक्षरमुद्राकरणम् । एतच्च यद्यपि 'कायेनासत्यां वाचं न वदामि' इत्यस्य, न वदामि न वादयामि' इत्यस्य वा व्रतस्य भङ्ग एव, तथापि सहसाकारानाभोगादिना अतिक्रमादिना १ सहसाभ्याख्यानादि जानन् यदि कुर्याद् व्रतभङ्गः । यदि पुनरनाभोगादिभिः तदा भवति अतिचारः ॥ २ दृश्यतां तत्त्वार्थ सूत्रस्य सिद्धसेनीया वृत्तिः ७/२१, पृ० १०६ । तुलना - प्रवचनसारोद्धारवृत्ति: पृ० ७२, धर्मसंग्रहवृत्तिः पृ० १०२ ॥ | ३ तुलना-धर्मविन्दुटीका पृ० ३८, पञ्चाशक वृत्तिः पृ० १२, नवपदप्रकरणबृहद्वृत्तिः पृ० ११५, प्रवचनसारोद्वारवृत्ति: पृ० ७२, धर्मसंग्रहवृत्तिः १०२ - १०३ ॥ ४ मन्त्रयित्वैव - मु० ॥ ५ तुलना - धर्मविन्दुटीका पृ० ३८, पञ्चाशकवृत्तिः पृ० १२, नवपदप्रकरणवृहद्वृत्तिः पृ० ११५, प्रवचनसारोद्धारवृत्तिः पृ० ७२, धर्मसंग्रहवृत्तिः पृ० १०२ ॥
For Private & Personal Use Only
10
॥ ५२५ ॥
www.jainelibrary.org