SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ तृतीय स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् 5 इत्वरकालं या परेण भाट्यादिना परिगृहीता वेश्या तां गच्छतः परदारवर्जिनो भङ्गः, कथञ्चित् परदारत्वात्तस्याः, हर लोके तु परदारत्वारूढेन भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । अपरिगृहीतायामनाथकुलाङ्गनायां या गतिः परदारवर्जिनः प्रकाशः सोऽप्यतिचारः, तत्कल्पनया परस्य भर्तुरभावेनापरदारत्वादभङ्गः, लोके च परदारतया रूढेभङ्ग इति पूर्ववदतिचारः । शेषास्तु । श्लोकः ९४ त्रयो द्वयोरपि भवेयुः। ।। ५३४॥ स्त्रियास्तु खपुरुषसन्तोष-परपुरुषवर्जनयोन भेदः, स्वपुरुषव्यतिरेकेणाऽन्येषां परपुरुषत्वात् । अन्यविवाहनादयस्तु त्रयः । स्वदारसन्तोपिण इव स्वपुरुषविषयाः स्युरिति पञ्च या। कथम् ? आद्यस्तावद्यदा स्वकीयपतिवारकदिने सपत्न्या परिगृहीतो भवति तदा सपत्नीवारकं विलुप्य तं परिभुञ्जानाया अतिचारः, द्वितीयस्त्वतिक्रमादिना परपुरुषमाभिसरन्त्या अतिचारः, देशविरतौ दशावरत ब्रह्मचारिणं या स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः । शेषास्त्रयः स्त्रियाः पूर्ववत् ॥ ९४ ॥ पञ्चमव्रता तिचाराः अथ पञ्चमव्रतस्यातिचारानाह धन-धान्यस्य कुप्यस्य गवादेः क्षेत्र-वास्तुनः । हिरण्य-हेम्नश्च संख्यातिक्रमोऽत्रॉपरिग्रहे ॥ ९४ ॥ अत्र श्रावकधर्मोचिते, अपरिग्रहवते यः संख्यातिक्रमः सोऽतिचारः । कस्य कस्येत्याह-धनं गणिम-धरिम-मेय-परीक्ष्यलक्षणम् । यदाह १ तुलना-धर्मबिन्दुटीका पृ० ४०, पञ्चाशकवृत्तिः पृ० १५, धर्मसंग्रहवृत्तिः पृ० १०६, प्रवचनसारोद्धारवृत्तिः पृ०७४ ॥ २८ष-वर्जनयो०-खं. सं. ॥ ३ ना वाभि-खं.॥ ४०त्र परि-मु०॥ ५ मोचिते परि०-मु०॥ Jain Education Interes For Private & Personal Use Only Bew.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy