________________
" न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः ? । निगद्यते यः कुपितो वधादीन् , करोत्यसौ स्यान्नियमेऽनपेक्षः ॥१॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपायाहीनतया तु भग्नः ।
देशस्य भङ्गादनुपालनाच, पूज्या अतीचारमुदाहरन्ति ॥ २॥" [ ] यच्चोक्तं-'व्रतेयत्ता विशीर्येत' इति, तदयुक्तम् , विशुद्धाहिंसासद्भावे हि बन्धादीनामभाव एव । तत स्थितमेतद् बन्धादयोऽतिचारा एव। बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्र-तन्त्रप्रयोगादयोऽन्येऽप्यतिचारतया ज्ञेयाः ॥ ९०॥ अथ द्वितीयस्य व्रतस्यातिचारानाह
मिथ्योपदेशः सहसाऽभ्याख्यानं गुह्यभाषणम् ।
विश्वस्तमन्त्रभेदश्च कूटलेखश्च सूनृते ॥ ९१ ॥ १ नियमानपेक्षः-मु०। नवपदप्रकरणबृहद्वत्तौ पृ० १०३, प्रवचनसारोद्धारवृत्तौ पृ० ७२, धर्मविन्दुटीकायां पृ० ३७, उपासकदशाङ्गटीकायां, पञ्चाशकवृत्तौ पृ० १० धर्मसंग्रहवृत्तौ पृ० १०१ उद्धतमिदम् ॥ २ विशीर्यत-क०३० सं. ॥३ “थूलगस्स मुसावायवेरमणस्स पंच अइयारा जाणियव्वा, न समायरियव्वा, तंजहा-सहसा अब्भक्खाणे १, रहसा अब्भक्खाणे २, सदारसमंतभेए ३, मोसोवएसे ४, कूडलेहकरणे ५” इति उपासकदशाङ्गे। आवश्यकसूत्रे प्रत्याख्यानाध्ययने, पञ्चाशके प्रवचनसारो
द्धारादौ च एत एव पञ्चातिचारा निर्दिष्टाः। मिथ्योपदेश-रहस्याभ्याख्यान कूटलेखक्रिया-न्यासापहार-साकारमन्त्रभेदाः”[७२१] के इति तत्त्वार्थसूत्रे । “मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखक्रिया-न्यासापहार-स्वदारमन्त्रभेदाः" ३।२४। इति तु धर्मबिन्दौ ।
Jain Education Intemats
For Private & Personal Use Only
O
w.jainelibrary.org