SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ 5 संज्वलनोदयश्च सर्वविरतानामेव, देशविरतानां तु प्रत्याख्यानावरणोदय इति न देशविरतावतिचारसम्भवः ।। युज्यते चैतत् , अल्पीयस्त्वात्तस्याः, कुन्थुशरीरे व्रणाद्यभाववत् । तथाहि-प्रथमाणुव्रते स्थूल-सङ्कल्प-निरपराध-द्विविधंत्रिविधेनेत्यादिविकल्पैर्विशेषितत्वेनातिसूक्ष्मतां गते देशाभावात् कथं देशविराधनारूपा अतिचारा भवन्तु ? अतः सर्वनाश एव तस्योपपद्यते । महाव्रतेषु तु ते संभवन्ति, महत्त्वादेव, हस्तिशरीरे व्रणपट्टबन्धादिवदिति । उच्यते-देशविरतावतिचारा न संभवन्तीत्यसङ्गतम् । उपाशकदशादिषु प्रतिव्रतमतिचारपञ्चकाभिधानात । अथ भङ्गा एव ते, न त्वतिचाराः । नैवम् , भङ्गा देनातिचारस्यागमे संमतत्वात् । यच्चोक्तम् 'सर्वेऽप्यतिचाराः संज्वलनोदय एव' तत् सत्यम् । केवलं सर्वविरतिचारित्रमेवाश्रित्य तदुच्यते, न तु सम्यक्त्व-देशविरती। यतः “सव्वे वि अ अइयारा" इत्यादि गाथाया एवं व्याख्या-संज्वलनानामेवोदये सर्वविरतावतिचारा भवन्ति, शेषोदये तु मूलच्छेद्यमेव तस्याम् । एवं चन देशविरतावतिचाराभावः ८९॥ तत्र प्रथमव्रते तानाह क्रोधाद् बन्धश्छविच्छेदोऽधिकभाराधिरोपणम् । प्रहारोऽन्नादिरोधश्चाहिंसायां परिकीर्तिताः ॥ ९० ॥ अहिंसायां प्रथमाणुव्रते अमी पश्चातिचाराः-बन्धो रज्ज्वादिना गो-मनुष्यादीनां नियन्त्रणम् ; स्वपुत्रादीनामपि | विनयग्राहणार्थ क्रियते, अतः क्रोधादित्युक्तम् । क्रोधात् प्रबलकषायोदयाद्यो बन्धः स प्रथमोऽतिचारः १ । १ स्थूलं सङ्कल्पं निरपराधं-मु०॥ २ गोमहिन्यादीनां मु०॥ Jain Education Inte For Private & Personal Use Only 2 ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy