SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ स्वापो वृत्ति विभूषितं योगशास्त्रम् ॥ ५१८ ॥ Jain Education I सत्पात्रदानफलसम्पदमद्वितीयां स प्राप सङ्गमक आयतिबर्द्धमानाम् । कार्यो नरैरवितथातिथिसंविभागे, भाग्यार्थिभिर्ननु ततः सततं प्रयत्नः ॥ १२७ ॥ ८८ ॥ [ इति सङ्गमककथानकम् ] उक्तानि द्वादश व्रतानि, अथ तच्छेषमतिचाररक्षणलक्षणं प्रस्तोतुमाह- तानि सातिचाराणि सुकृताय भवन्ति न । अतिचारास्ततो हेयाः पञ्च पञ्च व्रते व्रते ॥ ८९ ॥ अतिचारो मालिन्यं, तद्युक्तानि व्रतानि न सुकृताय भवन्ति, तदर्थमेवैकैकस्मिन् पञ्च पञ्चातिचाराः परिहरणीयाः । नैनु सर्वविरतावेवातिचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् । यदाह — " सैव्वे वि अ अइयारा संजलणाणं तु उदयतो हुंति । मूलच्छित्रं पुण होइ बारसहं कसायाणं ॥ १ ॥ " [ आव० नि० ११२ ] १ नरैरपि तथा० - शां. ॥ २ [ ] एतदन्तर्गतः पाठो नास्ति शां. खं. सं. ॥ ३ सर्वमेतत् प्रायोऽक्षरशः पञ्चाशकवृत्तौ [पृष्ठ०८-९] वर्तते, तथा धर्मसंग्रहटीकायां पृ० ९६-९७ ।। ४ सर्वेऽपि च अतिचाराः सज्वलनानां तूदयतो भवन्ति । मूलच्छेद्यं पुनर्भवति द्वादशानां कषायाणाम् ॥ For Private & Personal Use Only तृतीयः प्रकाशः श्लोकः ८९ ॥ ५१८ ॥ 5 द्वादश व्रतातिचार निरूपणम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy