________________
॥ ५१७॥
उभावथ महासत्त्वौ सत्वरौ भवमुज्झितुम् । वैभारपर्वते गत्वाऽनशनं तौ प्रचक्रतुः ॥ ११५ ॥ श्रेणिकेन समं भद्रा वैमारादि ययौ ततः। तथास्थितावपश्यच्च तावश्मघटिताविव ॥ ११६ ॥ तत्कष्टमय पश्यन्ती स्मरन्ती ततसखानि च । सारोदीद्रोदयन्तीव वैभाराद्रि प्रतिस्वनैः ॥ ११७॥ आयातोऽपि गृहं वत्स ! मया तु स्वल्पभाग्यया । न ज्ञातोऽसि प्रमादेनाप्रसादं मा कृथा मयि ॥ ११८ ॥ यद्यपि त्यक्तवान्नस्त्वं तथापि निजदर्शनात् । आनन्दयिष्यसि दृशौ पुरेत्यासीन्मनोरथः ॥ ११९ ।। आरम्भेणामुना पुत्र ! शरीरत्यागहेतुना। मनोरथं तमपि मे भतुमस्युद्यतोऽधुना ॥ १२० ॥ प्रारब्धं यत्तपस्तत्र न ते विघ्नीभवाम्यहम् । किन्त्वेतत् कर्कशतमं शिलातलमितो भव ॥ १२१ ॥ अथोचे श्रेणिको हर्षस्थाने किं नाम रोदिषि ? । ईदृग् यस्याः सुतः स्त्रीषु त्वं सैका पुत्रवत्यसि ॥ १२२ ।। तत्त्वज्ञोऽयं महासत्त्वस्त्यक्त्वा तृणमिव श्रियम् । प्रपेदे स्वामिनः पादान् साक्षादिव परं पदम् ॥ १३३ ॥ असौ जगत्स्वामिशिष्यानुरूपं तप्यते तपः । मुधाऽनुतप्यते मुग्धे ! किं त्वया स्त्रीस्वभावतः ॥ १२४॥ . भद्रेवं बोधिता राज्ञा वन्दित्वा तौ महामुनी । विमनस्का निजं धाम जगाम श्रेणिकस्तथा ॥ १२५ ॥ मृत्वा ततस्तौ सर्वार्थसिद्धस्वर्गे बभूवतुः । सुरोत्तमौ त्रयस्त्रिंशत्सागरप्रमितायुषौ ॥ १२६॥
१ सत्वरं-ख च ॥ २ मया त्वं-शां.। मयका-त्रिषष्टि० २०१०।१७४ ॥ ३०मभ्युद्यतो-सं.॥ ४ विघ्नो भ. खं. ॥ ५ शमिम-शां. ॥ ६-कग च ॥ किमम्ब रो-मु.॥ ७. ड... त्वमेका-सं. मु.। सका त्वं-त्रिषष्टि० १०।१०।१७७ ।।
10
7
ww.jainelibrary.org