SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ स्वोपवृत्तिविभूषितं पोगशास्त्रम् तृतीयः प्रकाशः श्लोकः ८८ NCHCHHCHEMERCHOICICICIRICIENCYCHCHCHCRECICICIRMIRICHE मातृपाश्र्वात् पारणं तेऽद्येत्युक्तः स्वामिना ततः । इच्छामीति भणन् शालिभद्रो धन्ययुतो ययौ ॥ १.१॥ गत्वा भद्रागृहद्वारि तावुभावपि तस्थतुः । तपःक्षामतया तौ च न केनाप्युपलक्षितौ ॥ १०२॥ श्रीवीरं शालिभद्रं च धन्यमप्यद्य वन्दितुम् । यामीति व्याकुला भद्राऽप्यज्ञासीदुत्सुका न तौ ॥ १०३ ॥ क्षणमेकमवस्थाय तत्र तो जग्मतुस्ततः। महर्षी नगरद्वारमतोल्या च निरीयतुः ॥१०४॥ तदाऽऽयान्ती पुरे तस्मिन्विक्रेतुं दधि-सर्पिषी। शालिभद्रस्य प्राग्जन्ममाता धन्याऽभवत्पुरः॥ १०५॥ शालिभद्रं तु सा प्रेक्ष्य सञ्जातप्रेस्रवस्तनी । वन्दित्वा चरणौ भक्त्या द्वाभ्यामपि ददौ दधि ॥ १०६॥ श्रीवीरयान्तिके गत्वा तदालोच्य कृताञ्जलिः । शालिभद्रोऽवदत् स्वामिन् मातृतः पारणं कथम् ? ॥ १०७॥ सर्वज्ञोऽप्याचचक्षेऽथ शालिभद्रमहामुनेः । प्राग्जन्ममातरं धन्यामन्यदप्यन्यजन्मजम् ॥ १०८॥ कृत्वा पारणकं दध्नाऽऽपृच्छय च स्वामिनं ततः । वैभारादि ययौ शालिभद्रो धन्यसमन्वितः ॥ १०९ ॥ शिलातले शालिभद्रः सधन्यः प्रतिलेखिते । पादपोपगमं नाम तत्रानशनमाश्रयत ॥ ११० ॥ तदा च भद्रा तन्माता श्रेणिकश्च महीपतिः । आजग्मतुर्भक्तियुक्तौ श्रीवीरचरणान्तिकम् ॥ १११ ॥ ततो भद्राऽवदद्धन्य-शालिभद्रौ व तौ मुनी ?। भिक्षार्थ नागतौ कस्मादस्मद्वेश्म जगत्पते ! ॥ ११२ ॥ सर्वज्ञोऽपि वभाषे तौ त्वद्वेश्मनि मुनी गतौ । ज्ञातौ न तु भवत्येहागमनव्यग्रचित्तया ॥ ११३ ॥ प्राग्जन्ममाता त्वत्सूनोर्धन्या यान्ती पुरं प्रति । ददौ दधि तयोस्तेन पारणं चक्रतुश्च तौ ॥ ११४ ॥ MEHCHERENCHEHEHCHEHENGERRIERRENESHAREHEARTERE अतिथिसंविभागवते सङ्गमकस्य [शालिभद्रस्य] कथा १ प्रस्नव-ड॥ Jain Education Inte For Private & Personal Use Only 22 ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy