________________
॥ ५१५ ॥
eleteleteksteISISISISIS
Jain Education Internat
त्वामनु प्रवजिष्याम एवमुक्तवतीश्च ताः । अन्वमन्यत धन्योऽपि धन्यंमन्यो महामनाः ॥ ८९ ॥ इतश्च वैभारगिरौ श्रीवीरः समवासरत् । विदाञ्चकार तं सद्यो धन्यो धर्मसुहृद्भिरा ॥ ९० ॥ दत्तदानः सदारोऽसावारुह्य शिबिकां ततः । भवभीतो महावीरचरणौ शरणं ययौ ॥ ९१ ॥ सदारः सोऽग्रहीद् दीक्षां ततो भगवदन्तिके । तच्छ्रुत्वा शालिभद्रोऽपि जितंमन्यः प्रतत्वरे ॥ ९२ ॥ सोऽन्वीयमानस्तदनु श्रेणिकेन महीभुजा । उपेत्य श्रीमहावीरपादमूलेऽग्रहीद् व्रतम् ॥ ९३ ॥ ततः सपरिवारोऽपि स्वामी सिद्धार्थनन्दनः । विहरन्नन्यतोऽगच्छत् सयूथ इव हस्तिराद् ॥ ९४ ॥ धन्यश्च शालिभद्रश्च तावभूतां बहुश्रुतौ । महत्तत्पश्च तेपाते खड्गधारासहोदरम् ॥ ९५ ॥
पक्षाद् मासाद् द्विमासात् त्रिमास्या मासचतुष्टयात् । शरीरनिरपेक्षौ तौ चक्रतुः पारणं मुनी ॥ ९६ ॥ तपसा समजायेतां निर्मांस-रुधिराङ्गकौ । चर्मभस्त्रोपमौ शालिभद्र - धन्यौ महामुनी ॥ ९७ ॥ अन्येद्युः श्रीमहावीरस्वामिना सह तौ मुनी । आजग्मतू राजगृहं पुरं जन्मभुवं निजाम् ॥ ९८ ॥ ततः समवसरणस्थितं नन्तुं जगत्पतिम् । श्रद्धाऽतिशययोगेनाच्छिन्नमीयुर्जनाः पुरात् ॥ ९९ ॥ मासपारणके शालिभद्र-धन्यावुभावपि । काले विहर्तुं मिक्षार्थं भगवन्तं प्रणेमतुः ॥ १०० ॥
१ द्विमासात् त्रिमासान्मास० - शां. । द्विमास्यास्त्रिमास्या मास० - मु. । " पात्रादिवर्जितादन्तोत्तरपदः समाहारे द्विगुः " | इति हैमे लिङ्गानुशासने । “ पात्रादिवर्जितमकारान्तमुत्तरपदं यस्य स द्विगुः समाहारे स्त्री पञ्चपूली । पात्रादिवर्जित इति किम् ? द्विपात्रं द्विमासं त्रिभुवनं चतुर्युगम्” इति तस्य अवचूरौ ॥
For Private & Personal Use Only
Doooooo
Beeeeee
10
॥ ५१५॥
jainelibrary.org