SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ॥५१३॥ BHINETRINITIHEROHIBICHETHEROHOCHHHHHHHHHI यावदन्वेषयामास भूपतिस्तदितस्ततः । तावद्भद्राऽऽदिशद्दासी वाप्यम्भोऽन्यत्र नाय्यताम् ॥ ६१ ॥ तथा कृते तया चित्रदिव्याभरणमध्यगम् । अङ्गाराभं खाङ्गुलीयं दृष्ट्वा राजा विसिष्मिये ॥ ६२ ॥ किमेतदिति राज्ञोक्ता दास्यवोचदिहान्वहम् । निर्माल्यं शालिभद्रस्य सभार्यस्य निधीयते ॥ ६३ ॥ सर्वथा धन्य एवैष धन्योऽहमपि संप्रति । राज्ये यस्येदृशाः सन्ति विममर्शेति भूपतिः ॥ ६४ ॥ बुभुजे सपरीवारो भूभुजामग्रणीस्ततः। चित्रालङ्कारवस्त्राद्यैरर्चितश्च गृहं ययौ ॥ ६५ ॥ शालिभद्रोऽपि संसारविमोक्षं यावदिच्छति । अभ्येत्य धर्मसहृदा विज्ञप्तस्तावदीदृशम ॥ ६६ । आगाच्चतुर्ज्ञानधरः सुरासुरनमस्कृतः । मूतॊ धर्म इयोद्याने धर्मघोषाभिधो मुनिः ॥ ६७ ॥ शालिभद्रस्ततो हर्षादधिरुह्य रथं ययौ । आचार्यपादान् वन्दित्वा साधूंथोपाविशत् पुरः ॥ ६८ ॥ स सरिर्देशनां कुर्वन् नत्वा तेनेत्यपृच्छयत । भगवन् ! कर्मणा केन प्रभुरन्यो न जायते ? ॥ ६९ ॥ भगवानप्युवाचेदं दीक्षां गृह्णन्ति ये जैनाः । अशेषस्यापि जगतः स्वामिभावं भजन्ति ते ॥ ७० ॥ यद्येवं नाथ ! तद् गत्वा निजामापृच्छय मातरम् । ग्रहीष्यामि व्रतमिति शालिभद्रो व्यजिज्ञपत् ॥ ७१ ॥ न प्रमादो विधातव्य इत्युक्तः मूरिणा ततः । शालिभद्रो गृहं गत्वा भद्रां नत्वेत्यभाषत ॥ ७२ ॥ धर्मः श्रीधर्मघोषस्य सूरेरद्य मुखाम्बुजात । विश्वदुःखविमोक्षस्योपायभूतो मया श्रुतः ॥ ७३ ॥ अकार्षीः साध्विदं वत्स ! पितुस्तस्यासि नन्दनः । प्रशशंसेति भद्राऽपि शालिभद्रं प्रमोदतः ॥ ७४॥ १.हमिति-खं.॥ २ नराः-ख च ॥ HOMEHEYEHCHCHCHCHEIGHBHENRELEHEHENGEMEHEYEHDHDHDHOTO ॥५१३॥ Jain Education Interne 205 For Private & Personal Use Only v.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy