SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ मद्योग्यो गृह्यतामेको महामूल्योऽपि कम्बलः । इत्यूचे चेल्लणादेव्या तदा च श्रेणिको नृपः ।। ३५ ॥ राज्ञाऽपि मूल्यपूर्व ते कम्बलं वणिजोऽर्थिताः । भद्रा जग्राह तान् सर्वान् कम्बलानित्यचीकथन् ॥ ३६ ॥ श्रेणिकः प्राहिणोदेकं प्रवीणं पुरुषं ततः । भद्रापार्श्वे मूल्यदानात् कम्बलादानहेतवे ॥ ३७ ।। याचिता तेन भद्रोचे छित्त्वा तान् रत्नकम्बलान् । शालिभद्रप्रियापार्दप्रोञ्छनीकृतवत्यहम् ॥ ३८ ॥ कार्य निष्पद्यते किश्चिज्जीणैश्चेद्रत्नकम्बलैः । तद् गच्छाऽऽपृच्छय राजानमागच्छामून् गृहाण च ॥ ३९ ॥ आख्यद् गत्वा स तंद्राज्ञे राज्यूचे चेल्लणाऽप्यदः । पश्यास्माकं वणिजां च रीति-हेनोरिवान्तरम् ॥ ४०॥ तमेव पुरुषं प्रेष्य श्रेणिकेन कुतूहलात् । आकारिते शालिभद्रे भद्रोपेत्य व्यजिज्ञपत् ॥ ४१॥ बहिर्नहि महीनाथ ! जातु याति मदात्मजः । प्रसादः क्रियतां देव ! तद् गृहागमनेन मे ॥ ४२ ॥ कौतूहलाच्छ्रेणिकोऽपि तत्तथा प्रत्यपद्यत । तं च क्षणं प्रतीक्ष्याथ साऽग्रे भूत्वा गृहं ययौ ।। ४३ ॥ विचित्रवस्त्र-माणिक्य-चित्रकत्वमयीं ततः । आराजहर्म्य स्वगृहादट्टशोभा व्यधत्त सा ॥ ४४ ॥ तयाऽहूतस्ततो राजा कृतां सद्यः सुरैरिव । विभावयन् हट्टशोभा शालिभद्रगृहं ययौ ॥ ४५ ॥ स्वर्णस्तम्भोपरि प्रेडदिन्द्रनीलाश्मतोरणम् । मौक्तिकस्वस्तिकश्रेणिदन्तुरद्वारभूतलम् ॥ ४६ ॥ दिव्यवस्वकृतोल्लोचं सुगन्धिद्रव्यधृपितम् । भुवि दिव्यविमानानां प्रतिमानमिव स्थितम् ॥४७॥ १०मूल्येपि-खं.। मूल्येन-त्रिषष्टि० १०।१०।९० ॥ २ प्रोच्छनी०-वं. ॥ ३ तद् गत्वाऽऽपृ०-त्रिषष्टि० १११०-९४ ॥ तद् राशो-शां. CHCHCHRITERNETRICHEHEREHEREETERRIERRESTERRHETERRENCHORT Jain Education Inters For Private & Personal use only w.jainelibrary.org/
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy