SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ ५१० ॥ Jain Education Interna दृष्टवनानुसारेण सनोस्तस्य शुभे दिने । चक्रतुः पितरौ शालिभद्र इत्यभिधां शुभाम् ॥ २२ ॥ भः पञ्चभिः पाल्यमानः स ववृधे क्रमात् । किञ्चिदूनाष्टवर्षः सन् पित्राऽप्यध्यापितः कलाः ॥ २३ ॥ संप्राप्तयौवनश्चासौ युवतीजनवल्लभः । सवयोभिः समं रेमे प्रद्युम्न इव नूतनः ॥ २४ ॥ तत्पुरश्रेष्ठोऽथैत्य कन्या द्वात्रिंशतं निजाः । प्रदातुं शालिभद्राय भद्रानाथं ययाचिरे ॥ २५ ॥ अथ प्रहृष्टो गोभद्रः शालिभद्रेण सादरम् । सर्वलक्षणसंपूर्णाः कन्यकाः पर्यणाययत् ॥ २६ ॥ शालिभद्रस्ततो रम्ये विमान इव मन्दिरे । विललास समं ताभिः पतिर्दिविषदामिव ॥ २७ ॥ विवेदानन्दमग्नोऽयं न रात्रिं न च वासरम् । तस्यापूरयतां भोगसामग्रीं पितरौ स्वयम् ॥ २८ ॥ श्रीवीरपादमूलेऽथ गोभद्रो व्रतमग्रहीत् । कृत्वा चानशनं मृत्वा देवलोकं जगाम ॥ २९ ॥ अवधिज्ञानतो ज्ञात्वा शालिभद्रं निजात्मजम् । तत्पुण्यावर्जितः सोऽभूत् पुत्रवात्सल्यतत्परः ।। ३० ।। दिव्यानि वस्त्रनेपथ्यादीन्यस्य प्रतिवासरम् । सभार्यस्यार्पयामास कल्पशाखीव सोऽमरः ॥ ३१ ॥ चितं कार्यं भद्रा तत्तदसाधयत् । पूर्वदानप्रभावेण भोगान् सोऽभुङ्क्त केवलम् ॥ ३२ ॥ - वणिग्भिः कैश्चिदन्येद्युगृहीत्वा रत्नकम्बलान् । शिश्रिये श्रेणिकस्तांच महार्घत्वेन नाग्रहीत् ॥ ततस्ते वणिजो जग्मुः शालिभद्रनिकेतनम् । तदुक्तार्घेण तान् भद्राऽप्यग्रहीद् रत्नकम्बलान् ॥ ३४ ॥ ३३ ॥ १ पाल्यमानः स धात्रीभिः पञ्चभिर्ववृधे क्रमात् शां. खं. ॥ २स प्राप्त० - शां. खं. ॥ ३ स - शां. । सः क ॥ adeeeeeeeeaaaaaaaaaaaaaaaat तृतीय : प्रकाशः श्लोकः ८८ ।। ५१० ॥ 5 अतिथिसंवि भागवते सङ्गमकस्य शालि भद्रस्य ] कथा 10 wjainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy