________________
तृतीयः प्रकाशः श्लोकः ८८
॥ ५०८॥
पश्य सङ्गमको नाम सम्पदं वत्सपालकः । स्वोपशवृत्ति
चमत्कारकरी प्राप मुनिदानप्रभावतः ॥ ८८ ॥ विभूषितं
पश्येत्यनेन मुग्धबुद्धिमभिमुखयति। सङ्गमको नामेति सङ्गमकाभिधानः, वत्सपालो वत्सपालनजीविकः, चमत्कारकरी योगशास्त्रम्
सम्पदं प्राप, कुतः ? मुनिदानप्रभावतः । अत्र सङ्गमकस्य पारम्पर्येण मोक्षोऽपि फलमस्ति तथापि प्रासङ्गिकफलाभिधानरभसेन ॥५०८॥
स नोक्तः। सङ्गमकचरितं च सम्प्रदायगम्यम् । स चायम
मगधेष्वस्ति निःसीमरत्नप्राग्भारभासुरम् । पुरं समुद्रवद् राजगृहं कुलगृहं श्रियः ॥ १॥ राजा पुरं तदपरैरनुल्लचितशासनः । शशास श्रेणिकः पाकशासनः स्वःपुरीमिव ॥२॥ शालिग्रामेऽथ धन्येति काचिद्दुच्छन्नवंशिका । बालं सङ्गमकं नाम समादाय समाययौ ॥ ३ ॥ वसंस्तत्र स पौराणां वत्सरूपाण्यचारयत् । अनुरूपा ह्यसौ रोरवालानां मृदजीविका ॥४॥ अथापरेाः संजाते तत्र कस्मिंश्चिदुत्सवे । पायसं सङ्गमोऽपश्यद् भुज्यमानं गृहे गृहे ॥ ५॥ गत्वा स्वगेहे जननीं ययाचे सोपि पायसम् । साऽप्युवाच दरिद्राऽस्मि मद्गेहे पायसं कुतः १ ॥६॥ बालेन तेनाज्ञतया याच्यमाना मुहुर्मुहुः । स्मरन्ती पूर्वविभवं तारतारं रुरोद सा ॥ ७ ॥
१०जीवकः-मु.॥ २०दुच्छिन्न०-मु. त्रिषष्टि०१०।१०।५७ ॥ ३ इत आरभ्य १२५ श्लोकपर्यन्तं प्रायः समानाः श्लोकाः कत्रिषष्टिशलाकापुरुषचरिते १०१००५९-२८०॥ ४ तारं तारं-ख. ग च ड॥
अतिथिसंविभागवते सङ्गमकस्य [शालिभद्रस्य ] कथा
10
Jain Education inte
For Private & Personal Use Only
vww.jainelibrary.org