SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् श्लोकाः || ५०६॥ पथ माना-अपमानयोर्लाभा-ऽलाभयोः सुख-दुःखयोः । प्रशंसा-निन्दयोहर्ष-शोकयोस्तुल्यवृत्तयः ॥ २९ ॥ कृत-कारिता-ऽनुमतिप्रभेदारम्भवर्जिताः । मोक्षकतानमनसो यतयः पात्रमुत्तमम् ॥ ३० ॥ सम्यग्दर्शनवन्तस्तु देशचारित्रयोगिनः । यतिधर्मेच्छवः पात्रं मध्यमं गृहमेधिनः ॥ ३१ ॥ सम्यक्त्वमात्रसंतुष्टा व्रत-शीलेषु निःसहाः । तीर्थप्रभावनोद्युक्ता जघन्यं पात्रप्लुच्यते ॥ ३२ ।। कुशास्त्रश्रवणोत्पन्नवैराग्या निष्परिग्रहाः । ब्रह्मचर्यरताः स्तेय-मृषा-हिंसापराङ्मुखाः ॥ ३३॥ घोरव्रता मौनजुषः कन्द-मूल-फलाशिनः । शिलोञ्छवृत्तयः पत्रभोजिनो भैक्षजीविनः ॥ ३४ ॥ कषायवत्रा निर्वस्त्राः शिखा-मौण्ड्य-जटाधराः । एकदण्डास्त्रिदण्डा वा गहा-ऽरण्यनिवासिनः ॥ ३५ ॥ पश्चाग्निसाधका ग्रीष्मे गलन्तीधारिणो हिमे । भस्माङ्गरागाः खट्वाङ्ग-कपाला-ऽस्थिविभूषणाः ॥ ३६ ॥ स्वबुद्धया धर्मवन्तोऽपि मिथ्यादर्शनदूषिताः । जिनधर्मद्विषो मूढाः कुपात्रं स्युः कुंतीर्थिनः ॥ ३७॥ प्राणिप्राणापहरणा मृषावादपरायणाः । परस्वहरणोयुक्ताः प्रकाम कामगर्दभाः ॥ ३८ ॥ परिग्रहारम्भरता न सन्तुष्टाः कदाचन । मांसाशिनो मद्यरताः कोपनाः कलहप्रियाः ।। ३९॥ कुशास्त्रमात्रपाठेन सदा पण्डितमानिनः । तत्त्वतो नास्तिकप्राया अपात्रमिति शंसिताः ॥ ४०॥ इत्यपात्र कुपात्रं च परिहत्य विवेकिनः । पात्रदाने प्रवर्तन्ते सुधियो मोक्षकाविणः ।। ४१ ॥ दानं स्यात् सफलं पात्रे कुंपात्रा-ऽपात्रयोरपि । पात्रे धर्माय तच स्यादधर्माय तदन्ययोः ॥ ४२ ॥ १ निःस्पृहाः-ग ण ॥ २ ग्यान्निष्प-सं. मु.॥ ३ कुतीर्थिकाः-ख च ।। ४ न त्वपात्रकुपात्रयोः-जण ॥ अतिथिसंविभागव्रतस्वरूपम् Jain Education Internal For Private & Personal Use Only |www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy