________________
साधूनां च तं प्रति का प्रतिपत्तिः ? उच्यते-तदैकः पटलकमन्यो मुखानन्तकमपरो भाजनं प्रत्यवेक्षते, माऽन्तरायalदोपाः स्थापनादोपा वा भवन्निति । स च यदि प्रथमायां पौरुष्यां निमन्त्रयते, अस्ति च नमस्कारसहितप्रत्याख्यानी,
ततस्तद् गृह्यते । अथ नास्त्यसौ तदा न गृह्यते, यतस्तद्वोढव्यं भवति । यदि पुनर्घनं लगेत , तदा गृह्यते संस्थाप्यते च; यो वा उद्घाटपौरुष्यां पारयति पारणकवानन्यो वा तस्मै तद्दीयते । पश्चात्तेन श्रावकेण समं सङ्घाटको व्रजति, एको न वर्तते । प्रेषयितुं, साधू पुरतः, श्रावकस्तु मार्गतो गच्छति । ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते; यदि निविशेते तदा भव्यम् ।
अथ न निविशेते तथापि विनयः प्रयुक्तो भवति । ततोऽसौ भक्तं पानं च स्वयमेव ददाति, भाजनं वा धारयति, स्थित एव हैवाऽऽस्ते यावदीयते । साधू अपि पश्चात्कर्मपरिहरणार्थ सावशेषं गृह्णीतः। ततो वन्दित्वा विसर्जयति, अनुगच्छति च ।
कतिचित् पदानि, ततः स्वयं भुङ्क्ते ।
___ यदि पुनस्तत्र ग्रामादौ साधयो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयतियदि साधवोऽभविष्यन् तदा निस्तारितोऽहमभविष्यमिति । एष पोषधपारणके विधिः । अन्यदा तु दत्त्वा भुङ्क्ते, भुक्त्वा वा ददातीति ।
अत्रान्तरश्लोकाःअन्नादीनामिदं दानमुक्तं धर्मोपकारिणाम् । धर्मोपकारबाह्यानां स्वर्णादीनां न तन्मतम् ॥१॥ १ पारणके दातव्यो वा तस्मै-ख. च.॥ २ अत्रान्तरे-खं.।
॥५०३।।
।
Jain Education Intem
For Private & Personal Use Only
SAw.jainelibrary.org