________________
तृतीयः
प्रकाशः श्लोकः
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
आहारादीनां च न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां च देश-काल-श्रद्धा-सत्कारपूर्वकमात्मानुग्रहबुद्धया यतिभ्यो दानमतिथिसंविभागः। यदूचुः
__ "नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देश-काल-सद्धा-सकार-कमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं अतिहिसंविभागो।" [आव० प्रत्या०]। ___अनूदितं चैतत्-" प्रायः शुबैत्रिविधविधिना प्रासुकैरेषणीयैः, कल्प्यमायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः ।
काले प्राप्तान सदनमसमश्रद्धया साधुवर्गान् , धन्याः केचित् परमवहिता हन्त ! संमानयन्ति ॥१॥ १“अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अन्नपाणाईणं दवाणं देसकालसद्धासकारकमजुयं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं ।" इति आवश्यकसूत्रे प्रतिक्रमणाध्ययने । अस्य हारिभद्री व्याख्या-' इह भोजनार्थ भोजनकालोपस्थायी अतिथिरुच्यते, तत्रात्मार्थ निष्पादिताहारस्य गृहिवतिनः मुख्यः साधुरेवातिथिः, तस्य संविभागोऽतिथिसंविभागः, संविभागग्रहणात् पश्चात्कर्मादिदोषपरिहारमाह, नामशब्दः पूर्ववत् , न्यायागतानामिति न्यायः द्विज-क्षत्रिय-विट-शूद्राणां स्ववृत्त्यनुष्ठानम् , स्वस्ववृत्तिश्च प्रसिद्धव प्रायो लोकहेा, तेन तादृशेन न्यायेनागतानां प्राप्तानाम् , अनेनान्यायागतानां प्रतिषेधमाह । कल्पनीयानामुद्गमादिदोषपरिवर्जितानाम्, अनेनाऽकल्पनीयानां निषेधमाह । अन्नपानादीनां द्रव्याणाम् , आदिग्रहणाद वस्त्र-पात्रौषध. -मेषजादिपरिग्रहः, अनेन हिरण्यादिव्यवच्छेदमाह। देश-काल-श्रद्धा-सत्कार-क्रमयुक्तम् , तत्र नानाबीहि-कोद्रव-कङ्ग-गोधूमादि. निष्पत्तिभाग् देशः, सुभिक्षदुर्भिक्षादिः कालः, विशुद्धश्चित्तपरिणामः श्रद्धा, अभ्युत्थाना-ऽऽसनदान-वन्दना-ऽनुब्रजनादिः सत्कारः, कापाकस्य पेयादिपरिपाट्या प्रदान क्रमः, एभिर्देशादिभिर्युक्तं समन्वितम् , अनेनापि विपक्षव्यवच्छेदमाह । परया प्रधानया भक्त्येति,
अनेन फलप्राप्तौ भक्तिकृतमतिशयमाह । आत्मानुग्रहबुद्धया, न पुनर्यत्यनुग्रहबुद्धयेति, तथाहि-आत्मपरानुग्रहपरा एव यतयः। संयता मूलगुणोत्तरगुणसम्पन्नाः साधवः तेभ्यो दानमिति सूत्रार्थः ।"-पृ. ८३७ ॥ २ ०मुपहते-सं. विना ॥ ३ सन्मान०-शां.॥ धर्मसंग्रहवृत्तौ च पृ०९५ ॥
For Private & Personal use only
अतिथिसंविभागव्रतस्वरूपम्
Jain Education in
Iww.jainelibrary.org