SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ॥४९५॥ निस्त्रिंशधारानिशितं स एवं श्रावकवतम् । सुचिरं पालयामास भगवद्वचनोचितम् ॥६७॥ ततः संलेखनापूर्व प्रपद्यानशनं सुधीः। मृत्वा सौधर्म उत्पेदे विमाने सोऽरुणप्रभे॥६८॥ दुष्पालमेवं चुलनीपिता यथा, तत् पालयामास स पोषधव्रतम् । ये पालयन्त्येव तथा परेऽप्यदो, दृढव्रतास्ते खलु मुक्तिगामिनः ॥ ६९॥ - [इति चुलनीपितुः कथानकम् ]' ॥ ८६ ॥ इदानीं चतुर्थ शिक्षाव्रतमाह दानं चतुर्विधाहार-पात्रा-ऽऽच्छादन-सद्मनाम् । अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितम् ॥ ८७ ॥ अतिथिभ्यस्तिथि-पर्वाद्युत्सवरहितेभ्यो भिक्षार्थ भोजनकाले उपस्थितेभ्यः साधुभ्यो दानं विश्राणनं चतुर्विधस्याशनपान-खाद्य-स्वाधरूपस्याहारस्य, पात्रस्यालान्वादेः, आच्छादनस्य वस्त्रस्य कम्बलस्य वा, सबनो वसतेः, उपलक्षणात है। पीठ-फलक-शय्यासंस्तारकादीनामपि । अनेन हिरण्यादिदाननिषेधः, तेषां यतेरनधिकारात् । तदेतदतिथिसंविभागव्रतमुच्यते । अतिथेः सङ्गतो निर्दोषो विभागः पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागः, तद्रूपं व्रतमतिथिसंविभागवतम् । [ ] एतदन्तर्गतः पाठो मु. विना नास्ति ॥ २ इत आरभ्य तुलना-पञ्चाशकवृत्तिः पृ० २७, धर्मसंग्रहवृत्तिः मा०९४-९५। ॥४९५॥ Jain Education Enational For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy