SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ स्वोva वृत्तिविभूषितं योगशास्त्रम् ॥ ४९४ ॥ aaaaaaaecede aaleeleelaaree Jain Education In Sal तत्राप्यालोक्य निष्कम्पं तं क्रुद्धः स सुरोऽब्रवीत् । नाद्याप्युज्झसि पाखण्डं मातरं ते विहन्मि तत् ।। ५३ ।। भद्रां नामाथ चुलनीपितुर्मातरमातुराम् । विकरोति स्म रुदतीं करुणं कुररीमिव ॥ ५४ ॥ ससुरः पुनरप्यूचे मुच्यतां प्रकृतं त्वया । स्वकुटुम्बमणाशाय कृत्यातुल्यमिदं व्रतम् ॥ ५५ ॥ अन्यथा कुलमेढिं ते मातरं हरिणीमिव । हत्वा भ्रक्ष्यामि पक्ष्यामि भक्षयिष्यामि च क्षणात् ॥ ५६ ॥ ततोऽप्यभीतं चुलनीपितरं वीक्ष्य सोऽमरः । भद्रामाराटयत्तारं सूनान्यस्तामजामिव ।। ५७ ।। या भार इवोढस्त्वमुदरेणोदरंभरिः । मातरं हन्यमानां तां पश्येत्यूचे पुनः सुरः ॥ ५८ ॥ अथैवं चिन्तयामास चेतसा चुलनीपिता । अहो दुरात्मा कोऽप्येष परमाधार्मिकोपमः ।। ५९ ।। पुत्रत्रयं मे पुरतो जघान च चखाद च । क्रव्यादिव ममाम्बामप्यधुना हन्तुमुद्यतः ॥ ६० ॥ यावन्न हन्त्यमूं तावद्रक्षामीति चचाल सः । कुर्वाणेन महाशब्दमुत्पेते च सुरेण खे ॥ ६१ ॥ तं च कोलाहलं श्रुत्वा भद्रा द्रुतमुपेत्य तम् । किमेतदिति चापृच्छत् सोऽशंसतदशेषतः ॥ ६२ ॥ ततोऽभाषिष्ट भद्रैवं मिथ्यादृक् कोऽप्ययं सुरः । पोषधव्रतविघ्नं ते चक्रे कृत्रिमभीषणैः ॥ ६३ ॥ पोषधव्रतभङ्गस्य कुरुष्वालोचनां ततः । पापाय व्रतभङ्गस्य स्यादनालोचनं यतः ॥ ६४ ॥ तथैव प्रतिपेदेऽथ तद्वाचं चुलनीपिता । चकारालोचनां तस्य व्रतभङ्गस्य शुद्धधीः ॥ ६५ ॥ अथैकादश भेजेऽसौ श्रावकप्रतिमाः क्रमात् । सोपानानीव स स्वर्गसौधारोहण कर्मणे ॥ ६६ ॥ १ ०मुत्य - मु. ॥ २ ० चनं- मु. ॥ For Private & Personal Use Only dediodeo तृतीय : प्रकाशः लोकः ८६ ।। ४९४ ।। 5 पोषधव्रते चुलनीपितुः कथानकम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy