________________
॥४९३॥
अप्रार्थितप्रार्थक रे! श्रमणोपासकव्रतम् । त्वया किमिदमारब्धं मदादेशेन मुच्यताम् ॥ ४१ ॥ मुश्चसीदं न चेत्तेऽये ज्येष्ठपुत्रमहं तदा । कूष्माण्डमिव खड्गेन खण्डयिष्यामि खण्डशः ॥ ४२ ॥ भवतः प्रेक्षमाणस्य पुरस्तात् पिशितान्यहम् । क्षिप्त्या कटाहे पक्ष्यामि शूलैर्धक्ष्यामि च क्षणात् ॥ ४३ ॥ आचमिष्यामि तन्मांसशोणितानि तथाऽधुना । प्रेक्षमाणो यथा हि त्वं खयमेव विपत्स्यसे ॥४४॥ देवब्रुवे विब्रुवति तत्रैवं चुलनीपिता । न चकम्पे केसरीव गर्जत्यूर्जितमम्बुदे ॥ ४५ ॥ अक्षोभं प्रेक्षमाणस्तु चुलनीपितरं सुरः। विभीषयितुकामस्तं तथैवोचे पुनः पुनः ॥ ४६ ॥ एवं विभाषमाणस्य सुरस्य चुलनीपिता। न सन्मुखमपि प्रेक्षाञ्चके शुन इव द्विपः ॥४७॥ स विकृत्य पुरो ज्येष्ठतनयं चुलनीपितुः । निस्त्रिंशेन नृशंसात्मा पशुवद् व्यशसत्ततः ॥ ४८ ॥ छित्त्वा क्षिप्त्वा कटाहान्तस्तन्मांसानि पपाच च । बभ्रज्ज च शितैः शूलैराचचाम च सोऽमरः ॥ ४९ ॥ अधिसेहे च तत्सर्व तत्त्वज्ञः चुलनीपिता । अन्यत्वभावनाभाजां स्वाङ्गच्छेदोऽपि नातये ॥ ५० ॥ अथोचे स सुरो रे रे ! व्रतमद्यापि नोज्झसि । तद् ज्येष्ठमिव ते पुत्रं हन्मि मध्यममप्यहम् ॥ ५१ ॥ ततोऽहन् मध्यमं पुत्रं तथैवोचे पुनः पुनः । निरीक्ष्याक्षभितं तं च कनिष्ठं चावधीत सुतम् ॥ ५२ ॥
१ तव-खं. सं. विना ॥ २ प्रेक्ष्यमा०-खं. सं. ॥ ३ भक्ष्यामि-सं. । भक्ष्यामि तत्क्षणात्-मु०॥ ४ प्रेक्ष्यमाणो-मु.॥ lain Educational निस्तूंशेन-ख. सं. ॥
॥४९३॥
For Private & Personal Use Only
www.jainelibrary.org