SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ ४९२ ॥ Jain Education I कलाय-मुद्र-माषेभ्य इतरं सुपमत्यजत् । शरत्कालभवात् सर्वं गोघृतादपरं घृतम् ॥ २८ ॥ शाकं पल्यङ्क- मण्डूकीशाकाभ्यामन्यमत्यजत् । विना स्नेहाम्ल -दाल्यम्ले तीमनान्यपि सर्वतः ।। २९ ।। अन्तरिक्षोदकादन्यदुदकं पर्यवर्जयत् । मुखवासं च ताम्बूलात् पञ्चसौगन्धिकाहते ॥ ३० ॥ अपध्यानं हिंस्रदानं प्रमादाचरितं तथा । पापकमोपदेशं चानर्थदण्डानवर्जयत् ॥ ३१ ॥ एवं श्रावकधर्मं स सम्यक् सम्यक्त्वपूर्वकम् । सर्वातिचाररहितं प्रपेदे पुरतः प्रभोः ॥ ३२ ॥ भगवन्तं ततो नत्वा गत्वा च निजवेश्मनि । प्रतिपन्नं तथा धर्म स्वभार्यायै न्यवेदयत् ।। ३३ ।। तेनाथ साऽप्यनुज्ञाता रथमारुह्य तत्क्षणम् । उपेत्य भगवत्पार्श्वे गृहिधर्ममशिश्रियत् ॥ ३४ ॥ तंदाच गौतमो नत्वा पप्रच्छेति जगत्पतिम् । महाव्रतधरः किं स्यान्न वाऽयं चुलनी पिता ? ।। ३५ ।। अथोचे स्वामिना नैष यतिधर्म प्रपत्स्यते । गृहिधर्मरतः किं तु मृत्वा सौधर्ममेष्यति ॥ ३६ ॥ अरुणाभे विमाने च चतुष्पल्योपमस्थितिः । ततश्च्युत्वा विदेहेषूत्पद्य निर्वाणमेष्यति ॥ ३७ ॥ [ युग्मम् ] गृहभारं ज्येष्ठपुत्रे न्यस्याथ चुलनीपिता । तस्थौ पोषधशालायां पालयन् पोषधव्रतम् ॥ ३८ ॥ तस्याथ पोषधस्थस्य मायामिथ्यात्ववान् सुर: । निशीथे कथिदागच्छत् पार्श्व व्रतजिघांसया ॥ ३९ ॥ घोराकारः पुरोभूय खड्गमाकृष्य भीषणम् । स इत्यूचे तमत्युच्चैश्चुलनीपितरं सुरः ॥ ४० ॥ १ इदं श्लोकत्रयं समानं त्रिषष्टि० १०/८/२९४ - २९६ ॥ २ पौषध० - खं. ॥ ३ पौषध० - शां. ॥ For Private & Personal Use Only Beeeeeeeee तृतीयः प्रकाशः श्लोकः ८६ ॥ ४९२ ॥ 5 पोषधत्रते चुलनीपितुः कथानकम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy