________________
॥ ४९१ ॥
Jain Education I
Bee
अन्यत्र गन्धकाषाय्याः प्रत्याख्यादङ्गपुंसनम् । आर्द्राया मधुकयष्टेरितरद्दन्तधावनम् ॥ २१ ॥ अन्यतः क्षीरामलकात् प्रत्याचख्यौ फलान्यपि । सहस्र - शतपाकाभ्यां तैलाभ्यां प्रक्षणान्तरम् ॥ २२ ॥ गैन्धाट्टादन्यतः प्रत्याचख्यावुद्वर्त्तनान्यपि । अष्टाभ्य औष्ट्रिकेभ्योऽम्भः कुम्भेभ्योऽधिकमज्जनम् ॥ २३ ॥ वस्त्रं प्रत्याख्यदन्यच्च कार्पासाद्वखयुग्मकात् । विलेपनानि चान्यत्र कुङ्कुमागरुचन्दनात् ॥ २४ ॥ पुष्पं प्रत्याख्यदन्यच्च पद्माज्जातिस्रजोऽपि च । कर्णिका - नाममुद्राभ्यामन्यानि भूषणानि च ॥ २५ ॥ मुमोच धूपमगरु तुरुष्काभ्यामथापरम् । अन्याश्च काष्ठपेयायाः पेया अपि समन्ततः ।। २६ ।। खण्डखाद्याद् घृतपूराच्चेतरत् खाद्यमत्यजत् । ओदनान्यपि निःशेषाण्यन्यतः कलमौदनात् ॥ २७ ॥ १ ० काषायात्-खं. ॥ २ प्रत्याख्यद० - मु. ॥ ३ गन्धाढ्याद० - मु.। दृश्यतां पृ० ४८९ टि० १ ॥ ४ तुरष्का०-खं. ॥ घृतपूराः प्रसिद्धाः, 'खण्डखज्ज 'त्ति खण्डलिप्तानि खाद्यानि अशोकवर्त्तयः खण्डखाद्यानि, 'ओदण'त्ति ओदनः - क्रूरं, 'कलत्त (म) - सालि' त्ति पूर्वदेशप्रसिद्धः, 'सूप' त्ति सूपः कूरस्य द्वितीयाशनं प्रसिद्ध एव, 'कलायसूवे' ति कलायाः चणकाकारा धान्यविशेषा मुद्गा माषाश्च प्रसिद्धाः, 'सारइएणं गोघयमण्डेणं' ति शारदिकेन शरत्कालोत्पन्नेन गोघृतमण्डेन - गोघृतसारेण, 'साग'न्ति शाको वस्तुलादि:, 'चूचुसाए' त्ति चूचुशाकः, सौवस्तिकशाको मण्डूकिकाशाकश्च लोकप्रसिद्धा एव, 'माहुरय' त्ति अनम्लरसानि शालनकानि, 'पालङ्ग' त्ति वल्लीफलविशेषः, 'जेमण' त्ति जेमनानि वटकपूरणादीनि, 'सेहंबदालियंबेहिं' ति सेधे सिद्धौ सति यानि अम्लेन | तीमनादिना संस्क्रियन्ते तानि सेधाम्लानि यानि दाल्या मुद्द्रादिमय्या निष्पादितानि अम्लानि च तानि दालिकाम्लानीति सम्भाव्यन्ते, | 'अन्तलिक्खोद्य' ति यज्जलमाकाशात् पतदेव गृह्यते तदन्तरिक्षोदकम् 'पञ्चसोगन्धिपणं ति पञ्चभिः - एला- लवङ्ग-कर्पूर-कक्कोलजातीफललक्षणैः सुगन्धिभिर्द्रव्यैरभिसंस्कृतं पञ्चसौगन्धिकम् ॥”
nal
For Private & Personal Use Only
5
10
॥ ४९१ ॥
www.jainelibrary.org