SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ४९० ॥ Jain Education दिग्यात्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । वहनानि विना सोऽथ प्रत्याख्यादितराणि तु ॥ २० ॥ १ इत आरभ्य ३० श्लोकं यावत् कथञ्चित् समानत्वं त्रिषष्टि० १०/८/२४८-२५७ ॥ २ वाहनानि - मु. । दृश्यतां पृ० ४८९ टि० १ ॥ ३ प्रत्याख्यदि०- मु. ॥ ध्ययने । अस्य अभयदेवसूरिविरचिता वृत्तिः-- " दिसायत्तिएहिं ति दिग्यात्रा - देशान्तरगमनं प्रयोजनं येषां तानि दिग्यात्रिकानि तेभ्योऽन्यत्र, 'संवाहणिएहिं ' ति संवाहनं क्षेत्रादिभ्यस्तृणकाष्ठधान्यादेर्गृहादावानयनं तत्प्रयोजनानि सांवाहनिकानि तेभ्योऽन्यत्र, 'वाहणेहिं' ति यानपात्रेभ्यः, 'उवभोगपरिभोग' त्ति उपभुज्यते-पौनः पुन्येन सेव्यत इत्युपभोगो-भवनवसनवनितादिः, परिभुज्यते सकृदासेव्यत इति परिभोग आहारकुसुमविलेपनादिः, व्यत्ययो वा व्याख्येय इति । 'उल्लणिय'त्ति स्नानजलाईशरीरस्य जललूषणवस्त्रं ' 'गन्धकासाईए' त्ति गन्धप्रघाना कषायेण रक्ता शाटिका गन्धकाषायी तस्याः, 'दन्तवण' ति दन्तपावनं दन्तमलापकर्षणकाष्टम्, 'अल्ललट्ठीमहुपणं' ति आद्रेण यष्टीमधुना - मधुररसवनस्पतिविशेषेण, 'खीरामलएणं 'ति अबद्धास्थिकं क्षीरमिव मधुरं वा यदामलकं तस्मादन्यत्र, 'सयपागसहस्सपागेहिं' ति द्रव्यशतस्य सत्कं क्वाथशतेन सह यत् पच्यते कार्षापणशतेन वा तच्छतपाकम् एवं सहस्रपाकमपि, 'गन्धट्टएणं' ति गन्धद्रव्याणामुपलकुष्ठादीनां 'अट्टओ' त्ति चूर्ण गोधूमचूर्ण वा गंधयुक्तं तस्मादन्यत्र, 'उट्टिएहिं उद्गस्स घडएहिं ' ति उष्ट्रिका - बृहन्मृन्मयभाण्डं, तत्पूरणप्रयोजना ये घटास्त उष्ट्रिकाः, उचितप्रमाणा | नातिलघवो महान्तो वेत्यर्थः । इह च सर्वत्रान्यत्रेति शब्दप्रयोगेऽपि प्राकृतत्वात् पञ्चम्यर्थे तृतीया द्रष्टव्येति । 'खोमजुयलेणं' ति कार्पासिकवस्त्रयुगलादन्यत्र, 'अगरु' त्ति अगुरुर्गन्धद्रव्यविशेषः, 'सुद्धपउमेणं' ति कुसुमान्तरवियुतं पुण्डरीकं वा शुद्धपद्मं ततोऽन्यत्र, 'मालइ कुसुमदाम' त्ति जातिपुष्पमाला, 'मट्ठकण्णेज्जएहिं ' ति मृष्टाभ्याम् अचित्रवद्भयां कर्णाभरणविशेषाभ्यां 'नाममुद्द' ति | नामाङ्किता मुद्रा - अङ्गुलीयकं नाममुद्रा, 'तुरुक्कधूव' त्ति सेल्हकलक्षणो धूपः, 'पेजविहिं ति पेयाहारप्रकारं 'कट्टपेज' त्ति मुद्गादियूषो | घृततलिततण्डुलपेया वा, 'भक्ख 'त्ति खरविशदमभ्यवहार्य भक्षमित्यन्यत्र रूढम् इह तु पक्कान्नमात्रं तद्विवक्षित, 'घयपुण्ण'त्ति For Private & Personal Use Only वृतीय : प्रकाशः श्लोकः ८६ 11880 11 5 पोषधव्रते चुलनीपितुः कथानकम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy