SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ॥ ४८७ ॥ acceedaare Jain Education Inter भवति, स्थूलत्वात् पोषधप्रत्याख्यानस्य सूक्ष्मत्वाच्च सामायिकस्येति । तथा पोषधयताऽपि सावद्यव्यापारा न कार्या एव । ततः सामायिकमकुर्व्वस्तल्लाभाद् भ्रश्यतीति । यदि पुनः सामाचारीविशेषात् सामायिकमिव 'द्विविधं त्रिविधेन' इत्येवं पोपधं प्रतिपद्यते तदा सामायिकार्थस्य पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत् । यदि परं पोषध-सामायिकलक्षणं व्रतद्वयं प्रतिपनं मयेत्यभिप्रायात् फलवदिति ।। ८५ ।। इदानीं पोषधव्रतकर्तॄन् प्रशंसति--- गृहिणोऽपि हि धन्यास्ते पुण्यं ये पोषधव्रतम् । दुष्पालं पालयन्त्येव यथा स चुलनीपिता ॥ ८६ ॥ यतयस्तावद् धन्या एव, गृहिणोऽपि गृहस्था अपि ते धन्याः धर्मधनं लब्धारः ये निःसच्वजनदुष्पालं पुण्यं पवित्रं पोषधव्रतं पालयन्ति, यथा स चुलनीपितेति दृष्टान्तः स च सम्प्रदायगम्यः । स चायम्- अस्ति वाराणसी नामानुग नगरी वरा । विचित्ररचनारम्या तिलकश्रीरिवावनेः ॥ १ ॥ सुत्रामेवामरावत्यामविसूत्रितविक्रमः । जितशत्रुरभूत्तत्र धरित्रीधवपुङ्गवः || २ || आसीद् गृहपतिस्तस्यां महेभ्यश्चुलनी पिता । प्राप्तो मनुष्यधर्मेव मनुष्यत्वं कुतोऽपि हि ॥ २ ॥ १ पौष० - शां. ॥ २ पौष० - शां. ॥ ३ इत्येव खं. ॥ ४ पौष० - शां. खं. ॥ ५ दृश्यतामुपासकदशाङ्गे तृतीयमध्ययनम् । इत आरम्य अष्टादश श्लोकाः त्रिषष्टिशलाकापुरुषचरित्रे दशमे पर्वणि प्रायोऽक्षरशो वर्तन्ते ८/२७६ - २९२ ।। ६ मनुष्यधर्मा कुबेरः ॥ For Private & Personal Use Only 5 10 ॥ ४८७ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy