________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
॥४८६॥
॥४८६॥
स्वरूपम्
| द्विविधं हि पोषधवतं देशतः सर्वतश्च । तत्राहारपोषधो देशतो विवक्षितविकृतेरविकृतेराचामाम्लस्य वा सकृदेव द्विरेय है।
तृतीयः वा भोजनमिति । सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत् प्रत्याख्यानम्। कुव्यापारनिषेधपोषधस्तु देशत एकतरस्य । प्रकाशः
श्लोकः कस्यापि कुव्यापारस्याकरणम् , सर्वतस्तु सर्वेषामपि कृषि सेवा-वाणिज्य-पाशुपाल्य गृहकमादीनामकरणम् । ब्रह्मचर्ययोषधोऽपि देशतो दिवैव रात्रावेव वा सकदेव द्विरेव वा स्त्रीसेवा मुक्त्या ब्रह्मचर्यकरणम् , सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्यपालनम् । है। देशतः स्नानादेः शरीरसत्कारस्यैकतरस्याकरणम् , सर्वतस्तु सर्वस्यापि तस्याकरणम् ।
इह च देशतः कुव्यापारनिषेधपोषधं यदा करोति तदा सामायिकं करोति वा न वा, यदा तु सर्वतः करोति तदा । पोषधव्रतसामायिक नियमात् करोति, अकरणे तु तत्फलेन बञ्च्यते । सर्वतः पोषधव्रतं च चैत्यगृहे वा, साधुमूले वा, गृहे वा, पोपधशालायां वा त्यक्तमणिसुवर्णाद्यलङ्कारो व्यपगतमाला-विलेपन-वर्णकः परिहतप्रहरणः प्रतिपद्यते । तत्र च कृते पठति, पुस्तकं वाचयति, धर्मध्यानं ध्यायति यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति । इह च यद्याहार-शरीरसत्कारब्रह्मचर्यपोषधवत् कुव्यापारपोषधमपि · अन्यत्रानाभोगेन' इत्याद्याकारोचारणपूर्वकं प्रतिपद्यते तदा सामायिकमपि सार्थक
१ पौषधो-खं. ॥ तुलना-पञ्चाशकवृत्तिः पृ० २५, नवपदप्रकरणबृहद्वत्तिः पृ० २७१, धर्मसंग्रहवृत्तिः पृ० ८८ ।
२.निषेधस्तु--खं.॥ ३ पौषधमपि-खं.। पोषधवतमपि-मु.॥ ४ सार्थकं स्यात्-मु.॥ नियमा करेति, जदि ण करेति वंचिज्जति । तं कहिं ! चेतियघरे साधुमूले घरे वा पोसहसालाए वा तोम्मुक्कमणि-सुवष्णो पढ़तो पोत्थगं वा वायंतो धम्मज्झाणं झियायति, जथा एते साहुगुणा अहं मंदभग्गो असमत्थो त्ति विभासा" इति आवश्यकसूत्रस्य प्रत्याख्यानचूर्णी पृ. ३०४ । एतादृशमेव वर्णन किश्चिच्छब्दभेदेन क्रममेदेन च आवश्यकसूत्रस्य हारिभद्रयां वृत्तावपि वर्तते पृ. ८३५ ॥
Jain Education Inte
61
For Private & Personal Use Only
78w.jainelibrary.org