________________
स्वोप
वृत्तिविभूषित योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः ८४ ॥४८४॥
॥४८४॥
तच्छय्यापालिका ध्वान्तं स्वामिनो मा स्म भूदिति । याते प्राग्यामिनीयामे प्रदीपे तैलमक्षिपत् ॥ ५॥ गते यामे द्वितीयस्मिन्नपि सा भक्तमानिनी । जाग्रती दीपके क्षीणतैले तैलं न्यधात् पुनः ॥६॥ त्रियामायास्तृतीयस्मिन्नपि यामे व्यतीयुषि । मल्लिकायां प्रदीपस्य तैलं चिक्षेप सा पुनः ॥ ७॥ विभातायां विभावर्यामवसानमथासदत । श्रमोत्पन्नव्यथाक्लान्तो राजा स इव दीपकः ॥ ८॥ सामायिकं समधिगभ्य निहत्य कर्म, चन्द्रावतंसनृपतित्रिदिवं ततोऽगात् । सामायिकव्रतजुषो गृहिणोऽपि सद्यः, । क्षीयेत कर्म निचित सुगतिर्भवेच्च ॥ ९ ॥ ८३ ।।
[॥ इति चन्द्रावतंसराजर्षिकथानकम् ॥] द्वितीयं शिक्षाव्रतमाह
दिगव्रते परिमाणं यत्तस्य संक्षेपणं पुनः।
दिने रात्रौ च देशावकाशिकव्रतमुच्यते ॥ ८४ ॥ दिग्त्रते प्रथमगुणवते यद्दशस्वपि दिक्षु गमनपरिमाणं तस्य दिवा रात्रौ चोपलक्षणत्वात् प्रहरादौ च यत् सङ्केपणं सातद्देशावकाशिकवतम् । देशे दिग्बतगृहीतपरिमाणस्य विभागे अवकाशोऽवस्थानं देशावकाशः, सोऽत्रास्तीति देशावकाशिकम, “ अतोऽनेकस्वरात्" [सि० ७।२।६ ] इतीकः ।
[ ] एतन्दतर्गतः पाठो मु० विना नास्ति ॥
Jain Education Inte
कर
For Private & Personal Use Only
REww.jainelibrary.org