________________
॥४८३॥
साधुवसतिं वा गच्छति, तत्र गतो राजककुदानि छत्र-चामरोपानद्-मुकुट खड्गरूपाणि परिहरति, जिनार्चनं साधुवन्दनं वा करोति । यदि त्वसौ कृतसामायिक एव गच्छेत् तदा गजा-ऽश्वादिभिरधिकरणं स्यात् ; तच्च न युज्यते कर्तुम् । तथा कृतसामायिकेन पादाभ्यामेव गन्तव्यम् , तच्चानुचितं भूपतीनामिति । आगतस्य च यद्यसौ श्रावको भवति तदा न कोऽप्यभ्युत्थानादि करोति । अथ यथाभद्रकस्तदा पूजा कृता भवत्विति पूर्वमेवासनं रच्यते, आचायाश्च पूर्वमेवोत्थिता आसते मा उत्थानानुत्थानकृता दोषा भूवन्निति, आगतश्चासौ सामायिकं करोतीत्यादि पूर्ववत् ।। ८२ ।। सामायिकस्थितश्च महानिर्जरो भवतीति दृष्टान्तद्वारेणाह
सामायिकव्रतस्थस्य गृहिणोऽपि स्थिरात्मनः ।
चन्द्रावतंसकस्येव क्षीयते कर्म सञ्चितम् ॥ ८३॥ गृहस्थस्यापि कृतसामायिकस्य कर्मनिर्जरा भवतीति चन्द्रावतंसक उदाहरणम् । तच्च सम्पदायगम्यम् । स चायम्अस्ति साकेतनगरं श्रीसङ्केतनिकेतनम् । हसितेन्द्रपुरश्रीकं सितार्हचैत्यकेतनैः ॥१॥ तत्र लोकदृगानन्दो द्वितीय इव चन्द्रमाः । चन्द्रावतंसो राजाऽसीदवतंस इवावनेः ॥२॥ स यथा धारयामास शस्त्राणि त्राणहेतवे । तीक्ष्णानि शिक्षावशतो व्रतान्यपि तथा सुधीः ॥३॥ माघमासे विभावयां सोऽन्यदा वासवेश्मनि । आदीपज्वलनं स्थास्यामीति सामयिक स्थितः॥४॥ १०कस्थश्च-मु.॥
Jain Educatiot
ational
For Private & Personal Use Only
www.jainelibrary.org