SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ स्वोपश-' वृत्तिविभूषितं योगशास्त्रम् ॥ ४८२ ॥ Jain Education अत्र च करेमि भंते सामाइयमिति वर्त्तमानस्य सावद्ययोगस्य प्रत्याख्यानम्, सावज्जं जोगं पच्चक्खामीत्यनागतस्य, तस्स भंते पडिकमामीत्यतीतस्येति त्रैकालिकं प्रत्याख्यानमुक्तमिति त्रयाणां वाक्यानां न पौनरुम्यम् । उक्तञ्च – “अईयं निंदामि पड़पन्नं संवरेमि अणागयं पंच्चक्खामि " । [ पाक्षिकसूत्रे ] इति । एवं कृतसामायिक ईर्यापथिकायाः प्रतिकामति, पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् बन्दते, पुनरपि गुरु वन्दित्वा प्रत्युपेक्ष्य निविष्टः शृणोति, पठति, पृच्छति वा । एवं चैत्यभवनेऽपि द्रष्टव्यं । यदा तु स्वगृहे पोषधशालायां वा | सामायिकं गृहीत्वा तत्रैवाऽऽस्ते तदा गमनं नास्ति । यस्तु राजादिर्महर्द्धिकः स गन्धसिन्धुरस्कन्धाधिरूढ छत्रचामरादिराजालङ्करणालङ्कृतो हास्तिका -ऽश्वीय- पादाति-रथ| कट्यापरिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्दकोलाहलाकुलीकृत नभस्तलोऽनेकसामन्तमण्डलेश्वराहमहमिकासंप्रेक्ष्य| माणपादकमलः पौरजनैः सश्रद्ध मङ्गुल्यो पर्दर्श्यमानो मनोरथैरुषस्पृश्यमानस्तेषामेवाञ्जलिबन्धान् लाजाञ्जलिपातान् शिरःप्रणामाननुमोदमानः 'अहो धन्यो धर्मो य एवंविधैरप्युपसेव्यः' इति प्राकृतजनैरपि श्लाध्यमानोऽकृतसामायिक एव जिनालयं १ तुलना - आवश्यकसूत्रस्य हरिभद्रीवृत्तिः पृ. ४८३ B. ॥ २ अइयं - सं. खं. ॥ ३ अतीतं निन्दामि प्रत्युत्पन्नं संवृणोमि | अनागतं प्रत्याख्यामि ॥ ४ राजादिमह० - खं. सं. ॥ ५ पादाति०- मु. ॥ “षष्ठ्याः समूहे ६ २१९ | कवचिहस्त्यचित्ताच्चे कण् ६।२।१४ ।। | वाश्वादीयः ६४२११९ । गोरथवातात् त्रल्-कट्चलम् ६१२२२४ ॥” इति सिद्धहेमशब्दानुशासने ॥ ६ ०दर्य मनोमनोरथै० - सं. ॥ ७ ०ञ्जलिं बन्धान् - खं. सं. ॥ ८ सेव्यत इति - शां ॥ For Private & Personal Use Only तृतीयप्रकाशः लोकः ८२ ॥ ४८२ ॥ 5 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy