SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ॥४८१॥ पुत्र-भृत्यादिकृतस्य व्यापारस्य स्वयमकरणेऽप्यनुमोदनात् । त्रिविधेनेति करणे तृतीया । मणेणं वायाए कारणं इति त्रिविधस्यैव ।। सूत्रोपात्तं विवरणं मनसा वाचा कायेन चेति त्रिविधेन करणेन । न करोमि न कारयामीति सूत्रोपात्तमेव द्विविधमित्यस्य । विवरणम् । किं पुनः कारणमुद्देशक्रममतिलङ्घन्य व्यत्यासेन निर्देशः कृतः ? उच्यते-योगस्य करणाधीनतोपदर्शनार्थम् । है। करणाधीनता हि योगानाम् , करणभावे भावात्तदभावे चाभावाद्योगस्य । तस्सेति तस्य, अत्राधिकृतो योगः संबध्यते. . अवयवावयविभावलक्षणसम्वन्धे पष्ठी, योऽयं योगस्त्रिकालविषयस्तस्यातीतमवयवं प्रतिकामामि निवर्ते प्रतीपं कामामीत्यर्थः । निन्दामि जुगुप्से, गर्हामि स एवार्थः; केवलमात्मसाक्षिकी निन्दा, गुरुसाक्षिकी गर्दा । भन्ते इति पुनर्गुरोरामन्त्रण भक्त्यतिशयख्यापार्थमपुनरुक्तम् ; अथवा सामायिकक्रियाप्रेत्यर्पणाय पुनर्गुरोः सम्बोधनम् । अनेन चैतत् ज्ञापितं भवति, सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति । उक्तं च भाष्यकारेण "सामाइयपञ्चप्पणवयणो वाऽयं भयंतसद्दो ति । सव्वकिरियावसाणे भणियं पञ्चप्पणमणेण ॥१॥" [वि.भा.३५७१ ]] अप्पाणमिति आत्मानमतीतकालसावद्ययोगकारिणम् , बोसिरामीति व्युत्सृजामि, विशब्दो विविधार्थो विशेषार्थो वा, उच्छब्दो भृशार्थः, विविधं विशेषेण वा भृशं सृजामि त्यजामीत्यर्थः । १ तुलना-आवश्यकसूत्रस्य हारीभद्री वृत्तिः पृ. ४८०॥ २ सम्बन्धिषष्ठी-सं.। तुलना-आवश्यकसूत्रस्य हारिभद्री वृत्तिः पृ. ४८४,४५६ ॥ ३ इति गुरोरा०-खं.॥ ४ नार्थ न पुन०-मु.॥ ५ तुलना-आवश्यकसूत्रस्य हारिभद्री वृत्तिः पृ. ४८४ B. | ३८६ B, ४५५॥ ६ सामायिकप्रत्यर्पणवचनो याऽयं भदन्तशब्द इति । सबैक्रियावसाने भणितं प्रत्यर्पणमनेन ॥ ॥४८१॥ Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy