________________
॥४७७॥
मुहर्त मुहूर्तकालं या समता रागद्वेपहेतुपु मध्यस्थता तां सामयिकव्रतं विदुः। समस्य राग-द्वेषविमुक्तस्य सतः आयो । ज्ञानादीनां लाभः प्रशमसुखरूपः समायः। समाय एव सामायिकम् , विनयादित्वादिकण् । समायः प्रयोजनमस्येति वा| सामायिकम् । तच्च सामायिकं मनोवाकायचेष्टापरिहारं विना न भवतीति त्यक्तातरौद्रध्यानस्येत्युक्तं त्यक्तसावद्यकर्मण इति च: त्यतं सावधं वाचिकं कायिकं च कर्म येन तस्य । सामायिकस्थश्च श्रावकः गृहस्थोऽपि यतिरिव भवति । यदाह
“सामाइयम्मि उ कए समणो इव सावओ हवइ जम्हा।
एएण कारणेणं बहुसो सामाइयं कुजा ।। १॥" [आव० नि० ८०१ वि० भा० २६९० ] अत एव तस्य देवस्नात्रपूजनादौ नाधिकारः । नन्वगर्हितं कर्म कुर्वाणस्य देवस्नात्रादौ को दोषः, सामायिकं हि सावद्यव्यापारनिषेधात्मकं निरवद्यव्यापारविधानात्मकं च, तत् स्वाध्याय-पठन-परिवर्तनादियत् देवपूजादौ को दोषः ? नैवम् , यतेरिव देवस्नात्रपूजनादौ नाधिकारः । भावस्तवार्थं च द्रव्यस्तवोपादानम् ; सामायिके च सति संप्राप्तो भावस्तव इति किं द्रव्यस्तवकरणेन ? । यदाह--
" दैव्वत्थओ ये भावत्थओ य दव्वथओ बहुगुणो त्ति बुद्धि सिया ।
अणिउणजणवयणमिणं छज्जीवहियं जिणा विति ॥१॥" [आवश्यकभाष्य गा० १९४] इति । १०विनिमुक्तस्य-मु. ॥ २ सामायिके वृत्ते श्रमण इव श्रावको भवति यस्मात् । एतेन कारणेन बहुशः सामयिकं कुर्यात् ।। ३०पूजादौ-मु.॥ ४ द्रव्यस्तवश्च भावस्तवश्च द्रव्यस्तवो बहुगुण इति वुद्धिः स्यात् । अनिपुणजनवचनमिदं षड्जीवहितं जिना कब्रुवन्ति ।। ५ अ-खं. सं.॥
॥४७७॥
Jain Education in zonal
For Private & Personal Use Only
Beww.jainelibrary.org