SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ॥४७५ ॥ जिनेन्द्रभवनस्यान्तरित्यादित आरभ्य संबध्यते; तेन जिनेन्द्रभवनस्य मध्ये विलासं कामचेष्टाम् , हासं कहकहध्वानं हसनम् , निष्ठयूतं निष्ठीवनम् , निद्रां खापम् , कलहं राटीम् , दुष्कथां चौर-पारदारिकादिकथाम् , चतुर्विधं चाहारम् | अशन-पान-खाद्य-स्वाधरूपं परिहरेत् । परिहरेदिति पूर्वतः सम्बन्धनीयम् । तत्राशनं शाल्यादि मुद्गादि सक्त्वादि पेयादि |मोदकादि क्षीरादि सूरणादि मण्डकादि च । यदाह "असणं ओयण-सत्तुग-मुग्ग-जगारादि खजगविही य। खीराइ मूरणाइ मंडगपभिई अ विष्णेय।।१॥" [पञ्चाशक ५।२७] पानं सौवीरं यवादिधावनं सुरादि सर्वश्वाप्कायः कर्कटकजलादिकं च । यदाह-- "पाणं सोवीर-जवोदगाइ चित्तं सुराइयं चेव । आउकाओ सव्वो कक्कडगजलाइयं च तहा ॥१॥" [ पश्चाशक ५।२८]] खाद्यं भृष्टधान्यं गुलपर्पटिका-खजूर-नालिकेर-द्राक्षा-कर्कट्याम्र-पनसादि । यदाह-- १०द्यस्वरूपं-मु.॥ २ असणं ओअण० मु.। “ओदन-सक्तुक-मुद्ग-जगार्यादि अशनं भवति, विज्ञेयमिति योगः || इह 'जगारी' शब्दः समयसिद्धः, ओदनादयस्तु लोकरुढाः । आदिशब्दात् क्षैरेयी-करम्बकादिग्रहः । खाद्यकविधिश्च अशोकवृत्तिमोदकादिलक्षणो भोजनप्रकारः । तथा क्षीरादि..."सूरणादि....."मण्डकप्रभृति च मण्डका-ऽपूप-पोलिकादि च विज्ञेयम् ।” इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्तौ पृ. १००॥ ३ ०जगाराइ-मु.॥ ४ विणणेअं-मु.॥ ५ कर्कटजला-सं.॥ ६. “पानं .......सौवीर-यवोदकादि । सौवीरं काञ्जिकं, यवोदकं यवधावनजलम् ।.."चित्रं बहुविधं..."सुरादिकं चैव"। का अकायः शस्त्रानुपहतोदकम्, सर्वः समस्तः"""""तथा"""""ककटकजलादिकं ककटाख्यफलविशेषरसमिथोदकादिकम्"""चशब्दः समुच्चये । पानमिति वर्तते ।" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्ती पृ. १०१॥ ७०जलाइर्ग-खं. सं.॥ ८ मृष्ट-खं.॥ For Private & Personal use only ॥४७॥ Jain Education Inte Oww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy