SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ खोपक्षवृत्तिविभूषितं योगशास्त्रम् ॥ ४७४ ॥ Jain Education Intern इत्यादिरूपा वा । तथा देशकथा, यथा 'दक्षिणापथः प्रचुरान्नपानः स्त्रीसम्भोगप्रधानः पूर्वदेशो विचित्रवस्त्र- गुड| खण्ड-शालि - मद्यादिप्रधानः; उत्तरापथे शूराः पुरुषाः, जविनो वाजिनः, गोधूमप्रधानानि धान्यानि, सुलभं कुङ्कुमं, मधुराणि | द्राक्षा-दाडिम - कपित्थादीनि; पश्चिमदेशे सुखस्पर्शानि वस्त्राणि, सुलभा इक्षवः, शीतं वारि' इत्येवमादि । राकथा राजकथा, यथा 'शूरोऽस्मदीयो राजा, सधनचौडः, गजपतिर्गौडः, अश्वपतिस्तुरुष्कः' इत्यादि । एवं प्रतिकूला अपि भक्तादिकथा वाच्याः । तथा रोगो ज्वरादिः, मार्गश्रमो मार्गखेदः, तौ मुक्त्वा सकलां निशां स्वापो निद्रा । रोग - मार्गश्रमयोस्तु न प्रमादाचरणम् । एवमादि पूर्वोक्तस्वरूपं प्रमादाचरणं परिहरेत् । सुधीः श्रमणोपासकः । प्रमादाचरितं च " मैज्जं विसयकसाया निद्दा विगहा य पंचमी भणिया । एए पंच पमाया जीवं पाडेंति संसारे ॥ १ ॥ " इति पञ्चविधस्य प्रमादस्य प्रपञ्चः ॥ ७८ ॥ ७९ ॥। ८० ।। देशविशेषे प्रमादपरिहारमाह [ उत्तराध्ययननियुक्ति १८० ] विलास-हास-निष्ठ्यूतं-निद्रा- कलह- दुष्कथाः । जिनेन्द्र भवनस्यान्तराहारं च चतुर्विधम् ॥ ८१ ॥ १ मद्यं विषय-कपाया निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादा जीव पातवन्ति संसारे ॥ २०तं निद्रा०-खं. ॥ For Private & Personal Use Only adalales aaaaaas तृतीय : प्रकाशः श्लोकः ८१ ॥ ४७४ ॥ 5 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy