________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकाः
॥४७२॥
॥ ४७२॥
वृष्टः खलु मेघः, यास्यति वापकालः, भृता वा केदारा गायन्तां, साद्धदिनत्रयमध्ये उप्यन्तां च व्रीहयः, तथा नेदीयोऽश्वैः। प्रयोजनं राज्ञामिति षण्ढय वर्द्धितकान् कुरु वाजिनोऽश्वान् । उपलक्षणं चैतदन्येषां ग्रीष्मे दवाग्निदानादीनाम् । अयं पापरूप उपदेशः श्रावकाणां न कल्पते न युज्यते। सर्वत्र पापोपदेशनियमं कर्तुमशक्तेभ्योऽपवादोऽयमुच्यते-दाक्षिण्याविषय इति । बन्धु-पुत्रादिविषयदाक्षिण्यवतः पापोपदेशोऽशक्यपरिहारः । दाक्षिण्याभावे तु यथा तथा मौखर्येण पापोपदेशो न कल्पते ॥ ७६ ।। अथ हिंसोपकारीणि तद्दानपरिहारं चाह
यन्त्र-लाङ्गल-शस्त्रा-ऽग्नि-मुशलोदूखलादिकम् ।
दाक्षिण्याविषये हिंस्र नार्पयेत्करुणापरः ॥ ७७ ॥ यन्त्रं शकटादि, लाङ्गलं हलम् , शस्त्रं खड्गादि, अग्निर्वविः, मुशलमयोऽयम् , उदूखलमुलूखलम् , आदिशब्दानुर्भखादिपरिग्रहः। हिंस्रं वस्तु करुणापरः श्रावको नार्पयेत्। दाक्षिण्याविषय इति पूर्ववत् ॥ ७७ ॥ अथ प्रमादाचरणमनर्थदण्डस्य चतुर्थ भेदं तत्परिहारं च श्लोकत्रयेणाह
कुतूहलाद् गीत-नृत्त-नाटकादिनिरीक्षणम् ।
कामशास्त्रप्रसक्तिश्च द्यूत-मद्यादिसेवनम् ॥ ७८ ॥ १ ग्राह्यन्तां-खं.॥
ELETEENSNEHREEEEEEEEEEEEEEEEEICHEREHEREHEHRET
Aw.jainelibrary.org
For Private & Personal Use Only
Jain Education Interlo